________________
४५
सू. ८-२-३८] स्वोपज्ञवृत्तिसहितम् तओ । निवत्तओ । निव्वत्तओ। पवत्तओ । संवत्तओ । वतिआ। वत्तिआ । कत्तिओ । उक्कत्तिओ । कतरी । मुत्ती । मुत्तो । मुहुत्तो ॥ बहुलाधिकाराद् वट्टा ॥ धूर्त । कीर्ति । वार्ता । आवर्तन । निवर्तन । प्रवर्तन । संवतर्क । आवर्तक । निवर्तक । निर्वर्तक । प्रवर्तक । संवर्तका । वर्तिका । वार्तिका। कार्तिक । उत्कर्तित । कर्तरी । मूर्ति। मूर्त । मुहूर्त । इत्यादि॥३०॥
वृन्ते ण्टः ॥ ८।२।३१ ॥ - वृन्ते संयुक्तस्य ण्टो भवति ॥ वेण्टं । तालवेण्टं ॥ ३१ ॥
ठोस्थि-विसंस्थुले ।। ८।२।३२ ॥ अनयोः संयुक्तस्य ठो भवति ॥ अट्ठी । विसंटुलं ॥ ३२ ॥
स्त्यानचतुर्थार्थे वा ।। ८ । २ । ३३॥ एषु संयुक्तस्य ठो वा भवति । ठीणं । थीणं । चउट्ठो । चउत्थो । अट्ठो प्रयोजनम् । अत्थो धनम् ॥
टस्यानुष्ट्रष्टासंदष्टे ।। ८।२। ३४ ॥ उष्ट्रादिवर्जिते ष्टस्य ठो भवति ॥ लट्ठी । मुट्ठी । दिट्ठी । सिट्ठी । पुट्ठो । कहूँ । सुरट्ठा । इट्ठो । अणिहूँ ।। अनुष्ट्रष्टासंदष्ट इति किम् । उट्टो । इट्टाचुण्णं व । संदट्टो ॥ ३४ ॥
गर्ने डः ॥ ८।२।३५ ।। गर्तशब्दे संयुक्तस्य डो भवति । टापवादः ॥ गड्डो । गड्डा ॥ ३५ ॥ संमर्द-वितर्दि-विच्छई-च्छर्दि-कपर्द-मर्दिते र्दस्य ॥ ८।२।३६ ॥
एषु र्दस्य डत्वं भवति ॥ सम्मड्डो । विअड्डी । विच्छड्डो । छड्डइ । छड्डी । कवड्डो । मड्डिओ । सम्मड्डिओ ॥ ३६ ॥
गर्दभे वा ॥ ८।२।३७ ।। गर्दभे र्दस्य डो वा भवति ॥ गड्डहो । गद्दहो ॥ ३७॥
कन्दरिका-भिन्दिपाले ण्डः ॥ ८।२।३८॥ अनयोः संयुक्तस्य ण्डो भवति ।। कण्डलिआ । भिण्डिवालो ॥ ३८ ॥