________________
४४
प्राकृतव्याकरणम् [सू. ८-२-२३
स्पृहायाम् ॥८।२।२३॥ स्पृहाशब्दे संयुक्तस्य छो भवति । फस्यापवादः ॥ छिहा ॥ बहुलाधिकारात्वचिदन्यदपि । निप्पिहो ॥ २३ ॥
द्य-य्य-यों जः॥८।२। २४ ॥ एषां संयुक्तानां जो भवति ॥ छ । मज्जं । अवज्जं । वेज्जो । जुई । जोओ ॥ य्य । जज्जो । सेज्जा ।। 1 । भज्जा । चौर्यसमत्वात् । भारिआ। कज्ज । वज्ज । पज्जाओ । पज्जत्तं । मज्जाया ॥ २४ ॥
अभिमन्यौ ज-जौ वा ॥ ८।२। २५ ॥ अभिमन्यौ संयुक्तस्य जो जश्च वा भवति ॥ अहिमजू । अहिमञ्जू। पक्षे । अहिमन्नू ॥ अभिग्रहणादिह न भवति मन्नू ॥ २५ ॥
साध्वस--ध्य--ह्या झः ॥८। २ । २६॥ साध्वसे संयुक्तस्य ध्यायोश्च झो भवति ॥ सज्झसं ॥ ध्य । वज्झए । झाणं । उवज्झाओ । सज्झाओ । सज्झं । विझो ॥ ह्य । सज्झो । मज्झं। गुज्झं । णज्झइ ॥ २६॥
ध्वजे वा ॥८।२। २७॥ ध्वजशब्दे संयुक्तस्य झो वा भवति ॥ झओ धओ ॥ २७ ॥
इन्धौ झा ॥ ८ । २ । २८॥ इन्धौ धातौ संयुक्तस्य झा इत्यादेशो भवति । समिज्झाइ । विज्झाइ ॥ २८ ॥
वृत्त-प्रवृत्त--मृत्तिका--पत्तन-कदर्थिते टः॥ ८ । २ । २९ ॥
एषु संयुक्तस्य टो भवति ॥ वट्टो । पयट्टो । मट्टिआ । पट्टणं । कवट्टिओ ॥ २९॥
तस्याधूर्तादौ ॥ ८ । २ । ३०॥ तस्य टो भवति धूर्तादीन् वर्जयित्वा ।। केवट्टो । वट्टी । जट्टो । पयदृइ ॥ वट्टल । रायवयं । नट्टई । संवट्टिकं ॥ अधूर्तादाविति किम् । धुत्तो। कित्ती । वत्ता । आवत्तणं । निवत्तणं । पवत्तणं । संवत्तणं । आन