SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सू. ८-२-२२ ] स्वोपज्ञवृत्तिसहितम् ४३ 1 1 लच्छी । कच्छो । छीअं । छीरं । सरिच्छो । वच्छो । मच्छिआ । छेत्तं । छुहा । दच्छो । कुच्छी । वच्छं । छुण्णो | कच्छा । छारो । कुच्छेअयं । छुरो । उच्छा । छयं । सारिच्छं || अक्षि | इक्षु | लक्ष्मी । कक्ष । क्षुत । क्षीर । सदृक्ष । वृक्ष । मक्षिका । क्षेत्र | क्षुधू । दक्ष । कुक्षि । वक्षस् । क्षुण्ण । कक्षा । क्षार । कौक्षेयक । क्षुर उक्षन् । क्षत । सादृश्य ॥ क्वचित् स्थगितशब्देपि । छइअं || आर्षे । इक्खू । खीरं । सारिक्खमित्याद्यपि दृश्यते ॥ १७॥ । क्षमायां कौ ।। ८।२ । १८ ॥ कौ पृथिव्यां वर्तमाने क्षमाशब्दे संयुक्तस्य छो भवति । छमा पृथिवी ॥ लाक्षणिकस्यापि क्ष्मादेशस्य भवति । क्ष्मा । छमा ।। काविती किम् । खमा क्षान्ति ॥ १८ ॥ ऋक्षे वा ।। ८।२।१९। 1 ऋक्षशब्दे संयुक्तस्य छो वा भवति ॥ रिच्छं । रिक्खं । रिच्छो । रिक्खो । कथं छूढं क्षितं । " वृक्ष - क्षिप्तयो रुक्ख छूढौ (८-२-१२७) इति भविष्यति ॥ १९ ॥ क्षण उत्सवे ॥ ८ । २ । २० ॥ क्षणशब्दे उत्सवाभिधानिनि संयुक्तस्य छो भवति ।। छणो ॥ उत्सव इति । किम् । खणो ॥ २० ॥ हस्वात् थ्य-श्च-त्स - प्सामनिश्चले ॥ ८ । २ । २१ ॥ ह्रस्वात्परेषां ध्यश्चत्सप्सां छो भवति निश्वले तु न भवति ॥ थ्य | पच्छं पच्छा | मिच्छा || च । पच्छिमं । अच्छेरं । पच्छा त्स । उच्छाहो । मच्छलो । मच्छरो । संवच्छलो | चिइच्छइ ।। प्स । लिच्छइ । जुगुच्छइ । अच्छरा ॥ ह्रस्वादिति किम् | ऊसारिओ || अनिश्चल इति किम् । निलो || आर्षे तथ्ये चोपि । तच्चं ॥ २१॥ सामर्थ्योत्सुकोत्सवे वा ।। ८ । २ । २२ ।। एषु संयुक्तस्य छो वा भवति ॥ सामच्छं सामत्थं । उच्छुओ ऊसुओ । उच्छवो ऊसवो ॥ २२ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy