________________
सू. ८-२-५७] स्वोपज्ञवृत्तिसहितम्
आश्लिष्टे ल-धौ ॥ ८।२।४९ ॥ आश्लिष्टे संयुक्तयोर्यथासंख्यं ल ध इत्येतौ भवतः ॥ आलिद्धो ॥ ४९ ॥
चिन्हे न्धो वा ॥ ८।२।५० ॥ चिह्ने संयुक्तस्य न्धो वा भवति । ण्हापवादः ॥ पक्षे सोपि ॥ चिन्धं इन्धं चिण्हं ॥ ५० ॥
भस्मात्मनोः पो वा ॥ ८।२।५१ ॥ अनयोः संयुक्तस्य पो वा भवति ॥ भप्पो भस्सो । अप्पा अप्पाणो । पक्षे । अत्ता ॥ ५१ ॥
-मोः ॥ ८।२।५२॥ डुक्मोः पो भवति ॥ कुडलम् । कुम्पलं । रुक्मिणी । रुप्पिणी ॥ क्वचित् च्मोपि । रुच्मी रुप्पी ॥ ५२ ॥
प्प-स्पयोः फः ॥ ८।२।५३ ॥ प्पस्पयोः फो भवति ॥ पुष्पम् । पुप्फ ॥ शप्पम् । सप्फ ॥ निष्पेषः । निफेसो ॥ निप्पावः । निप्फावो ॥ स्पन्दनम् । फन्दणं ॥ प्रतिस्पर्धिन् । पाडिप्फद्धी ॥ बहुलाधिकारात् क्वचिद् विकल्पः । बुहप्फई बुहप्पई ॥ क्वचिन्न भवति । निप्पहो । णिप्पुंसणं । परोप्परम् ॥ ५३ ॥
___ भीष्मे ष्मः ॥ ८।२।५४ ॥ भीष्मे ष्मस्य फो भवति । भिप्फो ॥ ५४ ॥
श्लेष्माणि वा ॥ ८।२।५५ ॥ श्लेष्मशब्दे ष्मस्य फो वा भवति ॥ सेफो सिलिन्हो ॥ ५५ ॥
ताम्राने म्बः ॥ ८।२।५६ ॥ अनयोः संयुक्तस्य मयुक्तो बो भवति ॥ तम्बं । अम्बं ॥ अम्बिर तम्बिर इति देश्यौ ॥ ५६ ॥
हो भो वा ॥ ८।२। ५७॥ हस्य भो वा भवति ॥ जिब्मा जीहा ॥ ५७ ॥