________________
सू. ८-२-८]
स्वोपज्ञवृत्तिसहितम्
अह
संयुक्तस्य ॥ ८।२।१।। अधिकारोयं “ज्यायामीत् " ( ८-२-११५ ) इति यावत् । यदित उर्ध्वमनुक्रमिष्यामस्तत्संयुक्तस्येति वेदितव्यम् ॥ १॥
शक्त-मुक्त-दष्ट-रुग्ण- मृदुत्वे को वा ॥ ८।२।२॥ एषु संयुक्तस्य को वा भवति ॥ सक्को सत्तो । मुक्को मुत्तो । डको दट्ठो । लुक्को लुग्गो। माउक्कं माउत्तणं ॥ २॥
क्षः खः क्वचित्तु छ-झौ ॥८।२।३॥ क्षस्य खो भवति ।। क्वचित्तु छझावपि ॥ खओ। लक्खणं । क्वचित्तु छझावपि । खीणं । छीणं । झीणं । झिज्जइ ॥ ३ ॥
क-स्कयो म्नि ॥ ८॥२॥४॥ अनयोर्नान्नि संज्ञायां खो भवति ॥ प्क । पोक्खरं । पोक्खरिणी । निक्खं ॥ स्क । खन्धो। खन्धावारो। अवक्खन्दो । नाम्नीति किम् । दुक्करं । निक्कम्पं । निक्कओ। नमोकारो । सक्कयं । सकारो। तकरो ॥ ४ ॥
शुष्क-स्कन्दे वा ॥ ८।२।५ ॥ अनयोः कस्कयोः खो वा भवति ॥ सुक्खं सुकं । खन्दो कन्दो ॥५॥
श्वेटकादौ ॥ ८।२।६॥ श्वेटकादिषु संयुक्तस्य खो भवति ॥ खेडओ।क्ष्वेटकशब्दो विषपर्यायः ।। क्ष्वोटकः । खोडओ ॥ स्फोटकः। खोडओ ॥ स्फेटकः । खेडओ ।। स्फेटिकः । खेडिओ ॥ ६ ॥
स्थाणावहरे ॥ ८॥२७॥ स्थाणौ संयुक्तस्य खो भवति हरश्चेद् वाच्यो न भवति ॥ खाणू ।। अहर इति किम् । थाणुणो रेहा ॥७॥
स्तम्भे स्तो वा ॥ ८।२।८॥ स्तम्भशब्दे स्तस्य खो वा भवति ॥ खम्भो । थम्भो। काष्ठादिमयः ॥ ८॥