________________
२
.
प्राकृतव्याकरणम् [सू. ८-१-२६९ किसलय-कालायस-हृदये यः ॥ ८।१।२६९॥ एषु सस्वरयकारस्य लुग् वा भवति ॥ किसलं किसलयं । कालासं । कालासयं । महण्णव-समा सहिआ । जाला ते सहिअएहिं घेप्पन्ति । निसमणुप्पिअ-हिअस्स हिअयं ॥ २६९ ॥
दुर्गादेव्युदुम्बर-पादपतन-पादपीठेन्तर्दः ॥ ८।१।२७० ॥ एषु सस्वरस्य दकारस्य अन्तर्मध्ये वर्तमानस्य लुग वा भवति ॥ दुग्गावी । दुग्गा-एवी । उम्बरो उउम्बरो । पा-वडणं पाय-बडणं । पा-वीदं ॥ पाय-वीढं ॥ अन्तरिति किम् । दुर्गादेव्यामादौ मा भूत् ॥ २७० ॥ यावत्तावजीवितावर्त्तमानावट-प्रावारक-देवकुलैवमेवे वः ॥८।१।२७१॥
यावदादिषु सस्वरवकारस्यान्तर्वर्तमानस्य लुग वा भवति ॥ जा जाव । ता ताव । जीअं जीविरं । अत्तमाणो आवत्तमाणो। अडो अवडो । पारओ पावरओ । दे-उलं देव-उलं । एमेव एवमेव ॥ अन्तरित्येव । एवमेवेन्त्यस्य न भवति ॥ २७१ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दा
नुशासनवृत्ती अष्टमस्याध्यायस्य प्रथमः पादः ॥ यद् दोर्मण्डलकुण्डलीकृतधनुर्दण्डेन सिद्धाधिप क्रीतं वैरिकुलात् त्वया किल दलकुन्तावदातं यशः । भ्रान्त्वा त्रीणि जगन्ति खेदविवशं तन्मालवीनां व्यधादापाण्डौ स्तनमण्डले च धवले गण्डस्थले च स्थितिम् ॥ १ ॥