________________
प्राकृतव्याकरणम् [सू. ८-१-२५४
हरिद्रादौ लः ॥ ८।२।२५४ ॥ हरिद्रादिषु शब्देषु असंयुक्तन रस्य लो भवति ॥ हलिदी । दलिदाइ । दलिदो । दालिदं । हलिदो । जहुट्ठिलो । सिढिलो। मुहलो । चलणो । वलुणो । कलुणो । इङ्गालो । सक्कालो । सोमालो । चिलाओ । फलिहा । फलिहो । फालिहदो । काहलो। लुक्को । अवद्दालं । भसलो। जढलं । बढलो । निट्ठलो ॥ बहुलाधिकाराच्चरणशब्दस्य पादार्थवृत्तेरेव । अन्यत्र चरण-करणं ॥ भ्रमरे ससंनियोगे एव । अन्यत्र भ्रमरो ॥ तथा । जढरं । बढरो। निटूरो इत्याद्यपि ॥ हरिद्रा । दरिद्राति । दरिद्र । दारिद्य । हरिद्र । युधिष्ठिर । शिथिर । मुखर । चरण । वरुण । करुण । अङ्गार । सत्कार । सकुमार । किरात । परिखा। परिघ । पारिभद्र । कातर । रुग्ण । अपद्वार । भ्रमर । जठर । बठर । निष्ठुर । इत्यादि ॥ आर्षे दुवालसङ्गे इत्याद्यपि ॥ २५४ ॥
स्थूले लो रः॥८।१।२५५॥ स्थूले लस्य रो भवति ॥ थोरं ।। कथं थूलभद्दो । स्थूरस्य हरिद्रादिलत्वे भविष्यति ॥२५५॥
लाहल-लाङ्गल-लाङ्गुले वादेर्णः ॥ ८।१।२५६ ॥ एषु आदेलस्य णो वा भवति ॥ णाहलो । लाहलो । गङ्गलं । लङ्गलं । णशूलं । लङ्गुलं ॥२५६॥
ललाटे च ॥ ८।१।२५७॥ ललाटे च आदर्लस्य णो भवति ॥ चकार आदेरनुवृत्त्यर्थः ॥ णिडालं । णडालं ॥ २५७ ॥
शबरे बो मः॥८।१। २५८ ॥ शबरे बस्य मो भवति ॥ समरो ॥ २५८ ॥
__ स्वम-नीव्योर्वा ॥८।१।२५९ ॥ अनायोर्वस्य मो वा भवति ॥ सिमिणो। सिविणो । नीमी नीवो ॥ २५९ ॥