________________
सू. ८-१-२५३ ]
स्वोपज्ञवृत्तिसहितम्
३७
संजोगो | अवजसो ॥ क्वचिन्न भवति । पओओ || आर्षे लोपोsपि । यथाख्यातम् । अहक्खायं ॥ यथाजातम् । अहाजायं ॥ २४५ ॥ युष्मद्यर्थपरेतः ८ । १ । २४६ ॥
युष्मच्छब्देर्थपरे यस्य तो भवति || तुम्हारिसो । तुम्हरो ॥ अर्थप इति किम् । जुम्हदम्ह - पयरणं ॥ २४६ ॥
यष्टयां लः ॥ ८ । १ । २४७ ।।
यष्टयां यस्य लो भवति || लट्ठी । वेणु-लट्ठी | उच्छु– लट्ठी । महुलट्ठी ॥ २४७ ॥
वोत्तरीयानीय-तीय- कृद्ये ज्जः ॥ ८ । १ । २४८ ॥ उत्तरीयशब्दे अनीयतीयकृद्यप्रत्ययेषु च यस्य द्विरुक्तो जो वा भवति ॥ उत्तरिज्जं उत्तरीअं || अनीय । करणिज्जं करणीअं । विम्हयणिज्जं विम्हयणीअं । जवाणिज्जं जवणीअं ॥ तीय । बिइज्जो बीओ ॥ कृद्य । पेज्जा पेआ ॥ २४८ ॥
छायायां होकान्तौ वा ॥ ८ । १।२४९ ॥
अकान्तौ वर्तमाने छायाशब्दे यस्य हो वा भवति ॥ वच्छस्स छाही वच्छस्स छाया । आतपाभावः । सच्छाहं सच्छायं ॥ अकान्ताविति किम् ॥ मुह - छाया । कान्तिरित्यर्थः ॥ २४९ ॥
डाह - कतिपये ॥ ८ । १ । २५० ।।
कतिपये यस्य डाह व इत्येतौ पर्यायेण भवतः ॥ कइवाहं । कड़अवं ॥ २५० ॥
किरि - मेरे रो डः ॥ ८ । १ । २५१ ।। अनयोरस्य डो. भवति ॥ किडी । भेडो ॥ २५१ ॥ पर्या डावा ।। ८ । १ । २५२ ।।
पर्याणे रस्य डा इत्यादेशो वा भवति || पडायाणं पल्लाणं ॥ २५२ ॥ करवीरे णः || ८|१|२५३ ॥ -
करवीरे प्रथमस्य रस्य णो भवति ॥ कणवीरो ॥ २५३ ॥