SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [ सू. ८-१-२३७ शिफा | सिभा || क्वचित्तु हः । मुत्ताहलं ॥ क्वचिदुभावपि । सभलं सहलं । सेभालिआ सेहालिआ। सभरी सहरी । गुभइ गुहइ ॥ स्वरादित्येव । गुंफइ ॥ असंयुक्तस्येत्येव । पुष्कं || अनादेरित्येव । चिट्ठ फणी ॥ प्राय इत्येव । कसण - फणी ॥ २३६॥ बो वः ।। ८ । १ । २३७ ॥ स्वरात्परस्यासंयुक्तस्यानादेर्बस्य वो भवति ॥ अलाबू । अलावू । अलाऊ || शबलः । सवलो ॥ २३७ ॥ बिसिन्यां भः || ८|१।२३८ ॥ बिसियां बस्य भो भवति ॥ भिसिणी || स्त्रीलिङ्गनिर्देशादिह न भवति । बिस-तु- पेलवाणं ॥ २३८ ॥ कबन्धे म - यौ । ८ । १ । २३९ ॥ कबन्धे बस्य मयौ भवतः ॥ कमन्धो कयन्धो ॥ २३९ ॥ कैटभे भो वः ॥ ८ । १ । २४० ॥ कैटभे भस्य वो भवति ॥ केदवो ॥ २४० ॥ विषमे मो ढो वा ॥ ८ । १ । २४१ ॥ विषमे मस्य ढो वा भवति ॥ विसढो । विसमो ॥ २४९ ॥ मन्मथे वः ।। ८ । १ । २४२ ।। मन्मथे मस्य वो भवति ॥ वम्महो ॥ २४२ ॥ वाभिमन्यौ ।। ८ । १ । २४३ ॥ अभिमन्युशब्दे मो वो वा भवति ॥ अहिवन्नू अहिमन्नू ॥ २४३ ॥ भ्रमरे सो वा ।। ८ । १ । २४४ ॥ भ्रमरे मस्य सो वा भवति ॥ भसलो भमरो ॥ २४४ ॥ आर्यो जः ।। ८ । १ । २४५ ॥ 1 पदादेर्यस्य जो भवति ॥ जसो । जमो । जाइ ॥ आदेरिति किम् । अवयवो | विणओ ॥ बहुलाधिकारात् सोपसर्गस्यानादेरपि । संजमो । /
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy