________________
३०
प्राकृतव्याकरणम्
पृथक धो वा ॥ ८।१।१८८ ॥
पृथक्शब्दे थस्य धो वा भवति ॥ पिधं पुधं । पिहं हं ॥ १८८ ॥ शृङ्खले खः कः || ८|१|१८९ ॥
शृङ्खले खस्त्र को भवति ॥ सङ्कलं ॥ १८९ ॥ पुन्नाग- भागिन्यो मः ॥ ८।१।१९० ॥ अनयोर्गस्य मो भवति ॥ पुन्नामा वसन्ते । भाभिणी ॥ १९० ॥ छागे लः || ८|१|१९१ ॥
1
छागे गस्य लो भवति ॥ छालो । छाली ॥ १९१ ॥
[ सू. ८-१-१८८
ऊत्वे दुर्भग-सुभगे वः || ८।१।१९२ ॥
अनयोरूत्वे गस्य वो भवति ॥ दूहवो । सूहवो ॥ ऊच इति किम् । दुहओ | सुहओ || १९२ ॥
खचित-पिशाचयोश्चः स लौवा || ८ |१| १९३ ॥ अनयोश्चस्य यथासंख्यं स ल्ल इत्यादेशौ वा भवतः ॥ खसिओ खइओ । पिसल्लो पिसाओ ।। १९३ ॥
जटिले जो झो वा ॥ ८।१।१९४॥
'जटिले जस्य झो वा भवति ॥ झडिलो जडिलो ॥ १९४ ॥ टो डः || ८।१।१९५ ॥
स्वरात्परस्यासं युक्तानादेष्टस्य डो भवति ।। नडो । भडो घडो ॥ घडइ || स्वरादित्येव । घंटा || असंयुक्तस्येत्येव । खट्टा । अनादेरित्येव । टक्को ॥ क्वचिन्न भवति । अटति । अटइ ॥ १९५ ॥
सटा - शकट - कैट ढः ॥। ८ । १ । १९६ ॥
. एषु टस्य ढो भवति ॥ सढा । सयढो । केढवो ॥ १९६ ॥ स्फटिके लः ॥ ८ । १ । १९७ ॥
स्फटिके टस्य लो भवति ॥ फलिहो ॥ १९७ ॥
चपेटा - पाटौ वा ॥ ८ । १ । १९८ ॥ चपेटाशब्दे ण्यन्ते च पटिधातौ टस्य लो वा भवति ॥ चविला चविढा । फालेइ फाडेइ ॥ १९८ ॥