________________
२९
सू. ८-१-१८७] स्वोपज्ञवृत्तिसाहितम् खप्परं । खीलओ ॥ अपुष्प इति किम् । बंधेउं कुज्जय-पसूणं । आषैन्यत्रापि । कासितं । खासि । कसित । खसिरं ॥ १८१ ॥ ___मरकत-मदकले गः कन्दुके त्वादेः ॥ ८।१।१८२ ॥
अनयोः कस्य गो भवति कन्दुके त्वाद्यस्य कस्य ॥ मरगयं । मयगलो । गेन्दुअं ॥ १८२॥
किराते चः ॥८।१।१८३॥ किराते कम चो भवति ॥ चिलाओ ॥ पुलिन्द एवायं विधिः । कामरूपिणि तु नेयते । नमिमो हर-किरानं ॥ १८३ ॥
शीकरे भ-हौ वा ॥ ८॥१॥१८४ ॥ शीकरे कस्य भहौ वा भवतः ॥ सीभरो सीहरो। पक्षे । सीअरो ॥ ॥ १८४ ॥
चन्द्रिकायां मः ॥ ८।१।१८५॥ चन्द्रिकाशब्दे कस्य मो भवति ॥ चन्दिमा ॥ १८५ ॥
निकष-स्फटिक-चिकुरे हः ॥ ८।१।१८६ ॥ एषु कस्य हो भवति ॥ निहसो। फलिहो । चिडुरो । चिहुरशब्दः संस्कृतेपि इति दुर्गः ॥ १८६ ॥
ख-घ-थ-ध-भाम् ।। ८।१।१८७॥ स्वरात्परेषामसंयुक्तानामनादिभूतानां ख घ थ ध भ इत्येतेषां वर्णानां प्रायो हो भवति ॥ ख । साहा । मुहं मेहला । लिहइ ॥ घ। मेहो । जहणं । माहो । लाहइ ॥ थ । नाहो । आवसहो । मिहुणं । कहइ ॥ ध । साहू । वाहो । बहिरो । बाहइ । इन्द-इणू ॥ भ । सहा । सहावो । नहं । थणहरो । सोहइ ॥ स्वरादित्येव । संखो। संबो । कंथा । बंधो। खंभो ॥ असंयुक्तस्येत्येव । अक्खइ। अग्घः । कत्थई । सिद्धओ। बन्धइ । लब्भइ ॥ अनादेरित्येव । गजन्ते खे मेहा ॥ गच्छइ घणो ॥ प्राय इत्येव । सरिसवखलो । पलय-वणो । अथिरो। जिण-धम्मो । पगढ़-भओ ॥ नभं ॥ १८७ ॥ .