________________
प्राकृतव्याकरणम् [सू. ८-१-१७८ तु वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपि विवश्यते । तेन तत्र यथादर्शनमुभयमपि भवति । सुहकरो सुहयरो । आगमिओ आयमिओ । जलचरो जलयरो । बहुतरो बहुअरी । सुहदो । सुहओ । इत्यादि ॥ कचिदादेरपि । स पुनः । स उण ॥ स च । सो अ । चिटं । इन्धं ॥ कचिवस्य जः । पिशाची । पिसाजी ॥ एकत्वम् । एगत्तं ॥ एकः । एगो ॥ अनुकः । अमुगो ॥ असूकः । असुगो ॥ श्रावकः । सावगो । आकारः । आगारो॥ तीर्थकरः तित्थगरो ॥ आकर्षः । आगरिसो॥ लोगस्सुज्जोअगरा । इत्यादिषु तु 'व्यत्ययश्च' (८-४-४४७) इत्येव कस्य गत्वम् ॥ आर्षे अन्यदपि दृश्यते । आकुञ्चनं । आउण्टणं । अत्र चस्य टत्वम् ॥ १७७ ॥
यमुना-चामुण्डा-कामुकातिमुक्तके भोनुनासिकश्च ॥ ८।१।१७८ ।।
एषु मस्य लुग् भवति लुकि च सति मस्य स्थाने अनुनासिको भवति॥ अँउणा । चाँउण्डा । काँउओ। अणिउँतयं ॥ क्वचिन्न भवति । अडमुन्तयं । अइमुत्तयं ॥ १७८ ॥
___ नावणात्पः ॥ ८।१।१७९ ॥ अवर्णात्परस्यानादेः पस्य लुग् न भवति ॥ सवहो । सावो ॥ अनादेरित्येव । परउट्ठो ॥ १७९ ॥
अवणों यश्रुतिः ॥ ८।१।१८० ॥ कगचजेत्यादिना लुकि सति शेषः अवर्णः अवर्णात्परो लघुप्रयत्नतरयकारश्रुतिर्भवति ॥ तित्थयरो । सयढं । नयरं । मयको । कघग्गहो । काय-मणी। रययं । पयावई । रसायलं । पायालं । मयणो । गया । नयणं । दयालू । लायण्णं ॥ अवर्ण इति किम् । सउणो। पउणो । पउरं । राईवं । निहओ । निनओ । वाऊ । कई । अवर्णादित्येव ॥ लोअस्स । देअरो ॥ क्वचिद् भवति । पिय६ ॥ १८०॥
कुज-कर्पर-कीले कः, खोपुष्पे ॥८।१।१८१ ॥ एषु कस्य खो भवति पुष्पं चेत् कुब्जाभिधेयं न भवति ॥ खुज्जो ।