________________
सू. ८-१-१७७ ] स्त्रोपज्ञवृत्तिसहितम्
२७ उच्चोये ॥ ८।१।१७३॥ उपशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऊन् ओच्चादेशो वा भवतः ॥ ऊहसि ओहासि उवहसि । ऊज्झाओ ओझाओ उवज्झाओ । ऊआसो ओआसो उववासो ॥ १७३ ॥
उमो निषण्णे ॥ ८।१।१७४ ॥ निषण्णशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह उम आदेशो वा भवति ॥ णुमण्णो । णिसण्णो ॥ १७४ ॥
प्रावरणे अवाऊ ॥ ८।१।१७५ ॥ प्रावरणशब्दे आदेः स्वरस्य परेण सम्वरव्यञ्जनेन सह अङ्गु आउं इत्येतावादेशौ वा भवतः ॥ पङ्गुरणं पाउरणं पावरणं ॥ १७५ ॥
स्वराइसंयुक्तस्यानादेः ॥ ८११।१७६ ॥ अधिकारोयम् । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्स्वरात्परस्यासंयुक्तस्यानादेर्भवतीति वेदितव्यम् ॥ १७६ ॥
क-ग-च-ज-त-द-प-य-बां प्रायो लुक् ॥ ८।१।१७७ ॥ स्वरात्परेषामनादिभूतानामसंयुक्तानां कगचजतदपयवानां प्रायो लुग भवति ॥ क । तित्थयरो । लोओ । सयद ॥ ग । नओ । नयरं । मयको ।। च । सई । कय-गहो ॥ ज । रययं । पयावई । गओ ॥ त । विआणं । रसा-यलं । जई ॥ द । गया । मयणो ॥ प । रिऊ । सुउरिसो ॥ य । दयालू । नयणं । विओओ ॥ व । लायणं । विउहो । वलयाणलो ॥ प्रायोग्रहणात्वचिन्न भवति । सुकुसुमं । पयागजलं । सुगओ। अगरू । सचावं । विजणं । सुतारं । विदुरो । सपावं । समवाओ । देवो । दाणवो । स्वरादित्येव । संकरो । संगमो । नकंचरो । धणंजओ । विसंतवो । पुरंदरो । संवुडो । संवरो ॥ असंयुक्तस्येत्येव । अक्को । वग्गो । अञ्चो । वजं । धुत्तो । उद्दामो । विप्पो । कज्ज । सव्वं ॥ क्वचित्संयुक्तस्यापि । नक्तंचरः नकंचरो ॥ अनादेरित्येव । कालो । गन्धो । चोरो । जारो । तरू । दवो । पावं । वण्णो । यकारस्य तु जत्वम् आदौ वक्ष्यते । समासे