________________
२६
प्राकृतव्याकरणम् [सू. ८-१-१६७
वा कदले ॥ ८।१।१६७॥ कदलशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् वा भवति । केलं कयलं । केली कयली ॥ १६७ ॥
वेतः कर्णिकारे ॥ ८।१।१६८॥ कर्णिकारे इतः सस्वरव्यञ्जनेन सह एद् वा भवति ॥ कण्णेरो कण्णिआरो ॥ १६८ ॥
अयौ वैत् ॥ ८।१।१६९ ॥ अविशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऐद् वा भवति । ऐ बीहेमि । अइ उम्मत्तिए । वचनादेकारस्यापि प्राकृते प्रयोगः ॥१६९॥
ओलूतर-बदर-नवमालिका-नवफलिका-घूगफले ॥ ८।१।१७० ॥
पूतरादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् भवति ॥ पोरो। बोरं । बोरी । नोमालिआ । नोहलिआ पोप्फलं । पोप्फली ॥ १७० ॥
न वा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार
कुतूहलोदृखलोलुखले ॥ ८।१।१७१ ॥ मयूखादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ॥ मोहो मऊहो । लोणं । इअ लवगुग्गमा । चोग्गुणो चउग्गुणो । चोत्थो चउत्थो । चोत्थी चउत्थी । चोदह । चउद्दह । चोदसी चउद्दसी । चोव्वारो चउव्वारो । सोमालो सुकुमालो । कोहलं को उहल्लं । तह मन्ने कोहलिए । ओहलो उऊहलो । ओक्खलं । उलूहलं । मोरो मऊरो इति तु मोरमयूरशब्दाभ्यां सिद्धम् ॥ १७१ ॥
अवापोते ॥ ८।१।१७२ ॥ अवापयोरुपसर्गयोरुत इति विकल्पार्थनिपाते च आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ॥ अव । ओअरइ अवघरइ । ओआसो अवयासो ॥ अप । ओसरइ । अवसरइ । ओसारिअं अवसारिअं ॥ उत । ओ वणं । ओ धणो । उअ वणं । उअ घणो ॥ क्वचिन भवति। अवगयं । अवसदो । उअ रखी ॥ १७२ ॥