________________
सू. ८-१-१६६] स्वोपज्ञवृत्तिसहितम्
२५ औत ओत् ॥८।१।१५९॥ औकारस्यादेरोद् भवति ॥ कौमुदी । कोमुई ॥ यौवनम् । जोव्वणं । कौस्तुभः । कोत्थुहो ॥ कौशाम्बी । कोसम्बी ॥ क्रौञ्चः कोञ्चो ॥ कौशिकः । कोसिओ ॥ १५९ ॥
उत्सौन्दर्यादौ ॥ ८१।१६० ॥ सौन्दर्यादिषु शब्देषु औत उद् भवति ।। सुन्दर सुन्दरिअं । मुञापणो सुण्डो । सुद्धोअणी । दुवारिओ । सुगन्धत्तणं । पुलोमी । सुवण्णिओ ॥ सौन्दर्य । मौञ्जायन । शौण्ड । शौद्धोदनि । दौवारिक । सौगन्ध्य । पौलोमी । सौवर्णिकः ॥ १६० ॥
___कौक्षेयके वा ॥ ८।१।१६१ ॥ कौक्षयकशब्दे औत उद् वा भवति ॥ कुच्छेअयं । कोच्छेअयं ॥१६१॥
अउः पौरादौ च ॥ ८।१।१६२ ॥ कौक्षेयके पौरादिषु च औत अउरादेशो भवति ॥ कउच्छेअयं ॥ पौरः । पउरो । पउर-जणो ॥ कौरवः । कउरवो ।। कौशलम् । कउसलं ॥ पौरुषम् । पउरिसं ॥ सौधम् । सउहं ॥ गौडः । गउडो ॥ मौलिः । मउली। मौनम् । मउणं ॥ सौराः । सउरा ॥ कौलाः । कउला ॥ १६२ ॥
आच्च गौरवे ॥ ८।१।१६३ ॥ गौरवशब्दे औत आत्वम् अउश्च भवति ॥ गारवं । गउरवं ॥ १६३।।
नाव्यावः ॥ ८।१।१६४॥ नौशब्दे औत आवादेशो भवति ॥ नावा ॥ १६४ ॥ एत्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन ॥ ८।१।१६५ ॥
त्रयोदश इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण व्यञ्जनेन सह एद् भवति ॥ तेरह । तेवीसा । तेतीसा ॥ १६५ ॥
स्थविर-विचकिलायस्कारे ॥ ८।१।१६६॥ एषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् भवति ॥ थेरो । वेइल्लं । मुद्ध-विअइल्ल-पसूणपुञ्जा इत्यपि दृश्यते । एक्कारो ॥ १६६ ॥