________________
प्राकृतव्याकरणम् [सू. ८-१-१०४
तीर्थे हे ॥ ८।१।१०४॥ तीर्थशब्दे हे सति ईत ऊत्वं भवति ॥ तूहं ॥ ह इति किम् । तित्थं ॥ १०४ ॥
एत्पीयूषापीड-बिभीतक-कीदृशेदृशे ॥ ८।१।१०५॥ एषु ईत एत्वं भवति ॥ पेऊसं । आमेलो । बहेडओ। केरिसो । एरिसो ॥ १०५॥
नीड-पीठे वा ॥ ८।१।१०६ ॥ अनयोरीत एत्वं वा भवति ॥ नेडं नीडं । पेढं पीढं ॥ १०६ ॥
उतो मुकुलादिवत् ॥ ८।१।१०७ ॥ मुकुल इत्येवमादिषु शब्देषु आदेरुतोत्वं भवति ॥ मउलं । मउलो । मउरं । मउडं । अगरुं । गर्लई । जहुढिलो । जहिट्ठिलो । सोअमल्लं । गलोई ॥ मुकुल । मुकुर । मुकुट । अगुरु । गुर्वी । युधिष्ठिर । सौकुमार्य । गुडूची । इति मुकुलादयः॥ क्वचिदाकारोपि । विद्रुतः । विदाओ ॥१०७॥
वोपरौ ॥ ८।१।१०८ ॥ उपरावुतोद् वा भवति ॥ अवरिं । उवरिं ॥ १०८ ॥
. गुरौ के वा ॥ ८।१।१०९॥ गुरौ स्वार्थे के सति आदेरुतोद् वा भवति ॥ गरुओ गुरुओ ॥ क इति किम् । गुरू ॥ १०९॥
(कुटौ ॥ ८।१।११० ॥ भृकुटावादेरुत इर्भवति ॥ भिउडी ॥ ११० ॥
पुरुषे रोः ॥ ८।१।१११ ॥ पुरुषशब्दे रोरुत इर्भवति ॥ पुरिसो । पउरिसं ॥ १११ ॥
ई: क्षुते ॥ ८।१।११२ ॥ क्षुतशब्दे आदेरुत ईत्वं भवति ॥ छीअं ॥ ११२ ॥
उत्सुभग-मुसले वा ॥ ८।१।११३ ॥ अनयोरादेरुत ऊद् वा भवति ॥ सूहवो सुहओ। मूसलं मुसलं ॥११३॥