________________
१७
सू. ८-१-१०३] स्वोपज्ञवृत्तिसहितम्
ओच्च द्विधाकुगः ॥८।१।९७॥ द्विधाशब्दे कृग्धातोः प्रयोगे इत ओत्वं वकारादुत्वं च भवति ॥ दोहाकिज्जइ । दुहा-किज्जइ ॥ दोहा-३अं । दुहा-इअं ॥ कृग इति किम् । दिहा-गयं ॥ क्वचित् केवलस्यापि । दुहावि सो सुर-बहू-सत्थो ॥ ९७ ॥
वा निर्झरे ना ॥८।१।९८॥ निर्झरशब्दे नकारेण सह इत ओकारो वा भवति॥ओज्झरो निज्झरो॥९८॥
हरीतक्यामीतोत् ॥८।१।९९॥ हरीतकीशब्दे आदेरीकारस्य अद् भवति ॥ हरडई ॥ ९९ ॥
आत्कश्मीरे ॥८।१।१००॥ कश्मीरशब्दे ईत आद् भवति । कम्हारा ॥ १०० ॥
पानीयादिवित्।।८।१।१०१॥ पानीयादिषु शब्देषु ईत इद् भवति । पाणि । अलिअं । जिअइ । जिअउ । विलिअं । करिसो । सिरिसो । दुइअं । तइअं । गहिरं । उवणि । आणिअं । पलिविअं। ओसिअन्तं । पसिअ । गहिअं। वम्मिओ तपाणि ॥ पानीय । अलीक ॥ जीवति । जीवतु । ब्रीडित । करीष । शिरीष । द्वितीय । तृतीय । गभीर । उपनीत । आनीत । प्रदीपित । अवसीदत् । प्रसीद । गृहीत । वल्मीक । तदानीम् । इति पानीयादयः ॥ बहुलाधिकारादेषु क्वचिन्नित्यं क्वचिद् विकल्पः । तेन । पाणीअं। अलीअं । जीआइ । करीसो । उवणओि । इत्यादि सिद्धम् ॥ १०१ ॥
उज्जीर्णे ॥ ८।१।१०२॥ जीर्णशब्द ईत उद् भवति ॥ जुण्ण-सुरा ॥ क्वचिन्न भवति । जिण्णे भोअणमत्ते ॥ १०२ ॥
- ऊहीन-विहीने वा ॥ ८।१।१०३ ॥ अनयोरीत ऊत्वं वा भवति ॥ हूणो हीणो । विहूणो विहीणो ॥ विहीन इति किन् । पहिण-जर मरण ॥ १०३ ॥
प्रा....२