________________
प्राकृतव्याकरणम् [सू. ८-१-८९
शिथिलेशन्दे वा ।।८।१।८९॥ अनयोरादेरितोद् वा भवति ॥ सढिलं । पसढिलं । सिढिलं । पसिढिलं अङ्गुअं । इङ्गुअं॥ निर्मितशब्दे तु वा आत्वं न विधेयम् । निर्मातनिमितशब्दाभ्यामेव सिद्धेः॥ ८९॥
तित्तिरौ रः ॥८।१।९०॥ तित्तिरिशब्दे रस्येतोद् भवति ॥ तित्तिरो ॥ ९० ॥
इतौ तो वाक्यादौ ॥८।१।९१॥ वाक्यादिभूते इतिशब्दे यस्तस्तत्संबन्धिन इकारस्य अकारो भवति ॥ इअ जम्पिआवसाणे । इअ विअसिअ-कुसुम-सरो ॥ वाक्यादाविति किम् । पिओ ति । पुरिसो ति ॥ ९१ ॥
ईर्जिह्वा-सिंह-त्रिंशद्विशतो त्या ॥८।१।९२॥ जिह्वादिषु इकारस्य तिशब्देन सह ईर्भवति ॥ जीहा । सीहो । तीसा । वीसा ॥ बहुलाधिकारात् क्वचिन्न भवति । सिंह-दत्तो । सिंह-राओ ॥९२॥
__ लुकि निरः ॥८। १ । ९३ ॥ निर उपसर्गस्य रेफलोपे सति इत ईकारो भवति ॥ नीसरइ । नीसासो॥ लुकीति किम् । निण्णओ। निस्सहाई अङ्गाई ॥ ९३ ॥
द्विन्योरुत् ॥८।१।९४॥ द्विशब्दे नावुपसर्गे च इत उद् भवति ॥ द्वि। दु-मत्तो। दु-आई । दु-विहो । दु-रेहो । दु-वयणं । बहुलाधिकारात् क्वचिद् विकल्पः। दु-उणो । बि-उणो । दुइओ बिइओ ॥ क्वचिन्न भवति । द्विजः । दिओ ॥ द्विरदः । दिरओ ॥ क्वचिद् ओत्वमपि । दो-वयणं । नि। णुमजइ । णुमन्नो ॥ क्वचिन्न भवति । निवडइ ॥ ९४ ॥
प्रवासीक्षौ ।। ८।१ । ९५ ॥ अनयोरादेरित उत्वं भवति ॥ पावासुओ । उच्छू ॥ ९५ ॥
युधिष्ठिरे वा ॥ ८॥ १।९६ ॥ युधिष्ठिरशब्दे आदेरित उत्वं वा भवति ॥ जहुट्ठिलो । जहिट्ठिलो॥१६॥