________________
सू. ८-१-८२ ] स्वोपज्ञवृत्तिसहितम्
___उदोद्वा ॥ ८॥११८२॥ आर्द्रशब्दे आदेरात उद् ओच्च वा भवतः ॥ उल्लं । ओलं । पक्षे । अल्लं । अदं । बाह-सलिल-पवहेण उल्लेइ ॥ ८२ ॥
ओदाल्यां पङ्क्तौ ॥८।११८३॥ आलीशब्दे पङ्क्तिवाचिनि आत ओत्वं भवति ॥ ओली । पङ्क्ताविति किम् । आली सखी ॥ ८३ ॥
हस्वः संयोगे ॥८॥११८४॥ दीर्घस्य यथादर्शनं संयोगे परे हस्वो भवति ॥ आत् । आम्रम् । अम्बं । तामम् । तम्बं ॥ विरहाभिः । विरहग्गी ॥ आस्यम् । अस्सं ॥ ईत् । मुनीन्द्रः । मुणिन्दो ॥ तीर्थम् । तित्थं ॥ ऊत् । गुरूल्लापाः । गुरुल्लावा ॥ चूर्णः । चुण्णो ॥ एत् । नरेन्द्रः। नरिन्दो ॥ म्लेच्छः । मिलिच्छो ॥ दिढिक्कथण-वढें ॥ ओत् । अधरोष्ठः । अहरुटुं ॥ नीलोत्पलम् । नीलुप्पलं ॥ संयोग इति किम् । आयासं । ईसरो । ऊसवो ॥ ८४ ॥
इत एद्वा ॥८।११८५॥ संयोग इति वर्तते । आदेरिकारस्य संयोगे परे एकारो वा भवति ॥ पेण्डं पिण्डं । धम्मेलं धम्मिलं । सेन्दूरं सिन्दूरं । वेण्हू विण्हू । पेढे पिढें । वेल्लं बिल्लं ॥ क्वचिन्न भवति । चिन्ता ॥ ८५ ॥
किंशुक वा ॥८।१।८६॥ किंशुकशब्दे आदेरित एकारो वा भवति ॥ केसुअं किंसुअं ॥ ८६ ॥
मिरायाम् ॥८।१।८७॥ मिराशब्दे इत एकारो भवति ॥ मेरा ॥ ८७ ॥ पृथ्वि-पृथिवि-प्रतिश्रुन्मूषिक-हरिद्रा-विभीतकेष्वेत् ॥८।१८८॥
एषु आदेरितोकारो भवति ॥ पहो । पुहई । पुढवी । पडंसुआ। मूसओ। हलद्दी । हलद्दा । बहेडओ ॥ पन्थं किर देसित्तेति तु पथिशब्दसमानार्थस्य पन्थशब्दस्य भविष्यति ॥ हरिद्रायां विकल्प इत्यन्ये । हलिद्दी हलिद्दा॥८८॥