________________
१४
प्राकृतव्याकरणम् [सू. ८-१-७३
आचार्ये चेच ॥ ८११७३ ॥ आचार्यशब्दे चस्य आत इत्वम् अत्वं च भवति ॥ आइरिओ । आयरिओ ॥ ७३ ॥
ई: स्त्यान-खल्याटे ॥ ८॥१७४ ॥ स्त्यानखल्वाटयोरादेरात ईभवति ॥ ठीणं । थणिं । थिण्णं । खल्लीडो॥ संखायम् इति तु 'समः स्त्यः खा' ( ८-४-१५ ) इति खादेशे सिद्धम् ॥७४॥
उसास्ना-स्तावके ॥ ८।१।७५ ॥ अनयोरादेरात उत्वं भवति ॥ सुण्हा । थुवओ ॥ ७५ ॥
ऊद्धासारे ॥ ८७६॥ आसारशब्दे आदेरात ऊद् वा भवति ॥ ऊसारो । आसारो ॥ ७६ ॥
आर्यायां यः श्वश्वाम् ॥७१७७॥ आर्याशब्दे श्वश्र्वां वाच्यायां यस्यात ऊर्भवति ॥ अज्जू ॥ श्वश्वामिति किम् । अज्जा ॥ ७७॥
एद् ग्राह्ये ॥८१७८॥ ग्राह्यशब्दे आदेरात एद् भवति ॥ गेझं ॥ ७८ ॥
द्वारे वा ॥ ८॥१॥७९॥ द्वारशब्दे आत एद् वा भवति ॥ देरं । पक्षे । दुआरं दारं बारं ॥ कथं नेरइओ नारइओ। नैरयिकनारकिकशब्दयोर्भविष्यति ॥ आर्षे अन्यत्रापि । पच्छेकम्मं । असहेज्ज देवासुरा ॥ ७९ ॥
पारापते रो वा ॥८११८०॥ पारापतशब्दे रस्थस्यात एद् वा भवति ॥ पारेवओ पारावओ ८० ॥
मात्रटि वा ॥८।१८१॥ मात्रट्प्रत्यये आत एद् वा भवति ॥ एत्तिअमेत्तं । एत्तिअमत्तं ॥ बहुलाधिकारात् क्वचिन्मात्रशब्दपि । भोअण-मेत्तं ॥८१॥