________________
सू. ८-१-६८ ] स्वोपज्ञवृत्तिसहितम् अव्यय । जह जहा । तह तहा । अहव अहवा । व वा ॥ ह हा। इत्यादि। उत्खातादि । उक्खयं उक्खायं । चमरो चामरो । कलओ कालओ । ठविओ ठाविओ । परिद्वविओ परिद्वाविओ । संठविओ संठाविओ । पययं पाययं । तलवेण्टं तालवेण्टं । तलवोटं तालवोण्टं । हलिओ हालिओ । नराओ। नाराओ। वलया वलाया । कुमरो कुमारो । खइरं खाइरं ॥ उत्खात । चामर । कालक । स्थापित । प्राकृत । तालवृन्त । हालिक । नाराच । बलाका । कुमार । खादिर इत्यादि ॥ केचिद् ब्राह्मणपूर्वाह्नयोरपीच्छन्ति । ब्रह्मणो ब्राह्मणो । पुव्वण्हो पुव्वाहो ॥ दवग्गी। दावग्गी । चडू चाडू । इति शब्दभेदात् सिद्धम् ॥ ६७ ॥
घवृद्धेर्वा ॥ ८।१। ६८ । घनिमित्तो यो वृद्धिरूप आकारस्तस्यादिभूतस्य अद् वा भवति ॥ पवहो पवाहो । पहरो पहारो । पयरो पयागे । प्रकारः प्रचारो वा । पत्थवो पत्थावो ।। क्वचिन्न भवति । रागः । राओ ॥ ६८ ॥
महाराष्ट्रे ॥ ८।१ । ६९ ॥ महाराष्ट्रशब्दे आदेराकारस्य अद् भवति ॥ मरहट्ठे । मरहट्ठो ॥ ६९ ॥
मांसादिष्वनुस्वारे ॥ ८।१।७० ॥ मांसप्रकारेषु अनुस्वारे सति आदेरातः अद् भवति ॥ मंसं । पंसू । पंसणो । कसं । कंसिओ । वसिओ पंडवो संसिद्धिओ । संजत्तिओ ॥ अनुस्वार इति किम् 1 मासं । पासू । मांस । पांसु । पांसन । कांस्य । कांसिक । वाशिक । पाण्डव । सांसिद्धिक । सांयात्रिक । इत्यादि ॥७०॥
श्यामाके मः ॥ ८।११७१ ॥ श्यामाके मस्य आतः अद् भवति ॥ सामओ ॥ ७१ ॥
इः सदादौ वा ।।८।१।७२ ॥ __ सदादिषु शब्देषु आत इत्वं वा भवति ॥ सइ सया । निसि-अरो निसा अरो । कुपिसो कुप्पासो ॥ ७२ ॥