________________
१७६
प्राकृतव्याकरणम् [सू. ८-४-४४७ (८-४-२९८) इत्युक्तं तथा प्राकृतपैशाचीशौरसेनीप्वपि भवति । चिष्ठदि । अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति । शद-माणुश-मंशभालके कुम्भ-शहश्र-वशाहे शंचिदे इत्याद्यन्यदपि द्रष्टव्यम् ॥ न केवलं भाषालक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति । ये वर्तमाने काले प्रसिद्धास्ते भूतेपि भवन्ति । अह पेच्छइ रहु-तणओ ॥ अथ प्रेक्षांचके इत्यर्थः ॥ आभासइ रयणीअरे । आबभाषे रजनीचरानित्यर्थः ॥. भूते प्रसिद्धा वर्तमानेपि । सोहीअ एस वण्ठो । शणोत्येष वण्ठ इत्यर्थः॥४४७॥
शेषं संस्कृतवत्सिद्धम् ॥ ८।४।४४८॥ शेष यदत्र प्राकृतादिभाषासु अष्टमे नोक्तं तत्सप्ताध्यायीनिबद्धसंस्कृतवदेव सिद्धम् ॥
हेट्ट-ट्ठिय-सूर-निवारणाय छत्तं अहो इव वहन्ती ।
जयइ ससेसा वराह-सास-दूरुक्खुया पुहवी ॥ अत्र चतुर्थ्या आदेशो नोक्तः स च संस्कृतवदेव सिद्धः। उक्तमपि क्वचित्संस्कृतवदेव भवति । यथा प्राकृते उरस्शब्दस्य सप्तम्येकवचनान्तस्य उरे उरम्मि इति प्रयोगौ भवतस्तथा क्वचिदुरसीत्यपि भवति ॥ एवं सिरे । सिरम्मि । सिरसि ॥ सरे । सरम्मि । सरसि ॥ सिद्धग्रहणं मङ्गलार्थम् । ततो ह्यायुष्मच्छ्रोतृकताभ्युदयश्चेति ॥ ४४८ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तावष्टमस्याध्यायस्य
चतुर्थः पादः समाप्तः ॥
. ॥ अष्टमोऽध्यायः ॥ समाप्ता चेयं सिद्धहेमचन्द्रशब्दानुशासनवृत्तिः प्रकाशिका नामेति ।। आसीद्विशां पतिरमुद्रचतुःसमुद्र
- मुद्राङ्कितक्षितिभरक्षमबाहुदण्डः । श्रीमूलराज इति दुर्धरवैरिकुम्भि
कण्ठीरवः शुचिचुलुक्यकुलावतंसः ॥ १ ॥