________________
१६४
प्राकृतव्याकरणम्,
[ सू. ८-४-४११
पदान्ते उं--हुं-- हिं-हंकाराणाम् ||८|४|४११ ॥ अपभ्रंशे पदान्ते वर्तमानानां उं हुं हिं हं इत्येतेषां उच्चारणस्य
लाघवं प्रायो भवति ॥
अन्नु जु तुच्छउं तहे धणहे | बलि किज्जडं सुअणस्सु ।।
दइउ घडावर वणि तरुहुँ ||
तरुहुं वि वक्कलु ।। खग्ग-विसाहिउ जहिं लहहुं ॥ तणहं तइज्जी भङ्गि नवि ॥ ४११ ॥
म्हो भो वा || ८ | ४ | ४१२ ॥
अपभ्रंशे म्ह इत्यस्य स्थाने म्भ इति मकाराकान्तो भकारो वा भवति ॥ म्ह इति " पक्ष्म - श्म - ष्म - स्म - ह्मां म्हः" ( ८-२-७४ ) इति प्राकृतलक्षणविहितोत्र गृह्यते । संस्कृते तदसंभवात् । गम्भो । सिम्भो || म्भ ते विरला के वि नर जे सव्वङ्ग - छइल |
जे वक्का ते वञ्चयर जे उज्जुअ ते बल्ल ॥ ४९२ ॥
अन्यादृशोन्नाइसावराइसौ || ८|४|४१३ ॥
अपभ्रंशे अन्यादृशशब्दस्य अन्नाइस अवराइस इत्यादेशौ भवतः ॥ अन्नासो | अवराइसो ॥ ४१३ ॥
प्रायसः प्राउ - प्राइव -- प्राइम्व -- पग्गिम्वाः || ८|४|४१४ ॥ अपभ्रंशे प्रायस् इत्येतस्य प्राउ प्राइव प्राइम्व पग्गिम्व इत्येते चत्वार आदेशा भवन्ति ॥
अन्ने ते दीहर लोअण अन्नु तं भुअ-जुअल ।
अन्नु सुघण थण-हारुतं अन्नु जि मुह-- कमलु ॥
अन्नु जिस कला अन्नु जि प्राउ विहि । जेण णिअम्बिणि घडिअ स गुण लायण्ण- णिहि ॥ . प्राइव मुहिं वि भन्तडी तें मणिअडा गणन्ति । अखंड निरामइ परम पइ अंज्ज वि. लउ न लहन्ति ॥
: