________________
सू. ८-४-४१०] स्वोपज्ञवृत्तिसहितम्
१६३ यावत्तावतोर्वादेर्म उं महिं ॥ ८।४।४०६ ॥ अपभ्रंशे यावत्तावदित्यव्यययोर्वकारादेरवयवस्य म उं महिं इत्येते त्रय आदेशा भवन्ति ॥
जाम न निवडइ कुम्भ-यडि सीह-चवेड-चडक । ताम समत्तहं मयगलहं पइ-पइ वज्जइ ढक्क ॥ तिलहं तिलत्तणु ताउं पर जाउं न नेह गलन्ति । नेहि पणठुइ तेजि तिल तिल फिट्टवि खल होन्ति । जामहिं विसमी कज्ज-गई जीवहं मझे एइ। तामहिं अच्छउ इमरु जणु सु-अणुवि अन्तरु देइ ॥ ४०६ ॥
वा यत्तदोतोर्डे वडः ॥ ८।४।४०७॥ अपभ्रंशे यद् तद् इत्येतयोरत्वन्तयोर्यावत्तावतोवकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति ॥
जेवडु अन्तरु रावण-रामहं तेवडु अन्तरु पट्टण-गामहं ॥ पक्षे । जेत्तुलो। तेत्तुलो ॥ ४०७ ॥
वेदं-किमोर्यादेः ॥ ८१४१४०८ ॥ अपभ्रशे इदम् किम् इत्येतयोरत्वन्तयोरियत्कियतोर्यकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति ॥ एवडु अन्तरु । केवड्ड अन्तरु ।। पक्षे । एत्तुलो । केत्तुलो ॥ ४०८॥
परस्परस्यादिरः ॥८।४।४०९॥ अपभ्रंशे परस्परस्यादिरकारो भवति ॥
ते मुग्गडा हराविआ जे परिविठ्ठा ताहं । __ अवरोप्परु जोअन्ताहं सामिउ गजिउ जाहं ॥ ४०९ ॥ कादि-स्थैदोतोरुचार-लाघवम् ॥ ८।४।४१० ॥
अपभ्रंशे कादिषु व्यञ्जनेषु स्थितयोरे ओ इत्येतयोरुच्चारणस्य लाघवं प्रायो भवति ॥
सुधै चिन्तिज्जइ माणु । तसु हउं कलि-जुगि दुल्लहहो ॥४१० ॥