________________
१५०
प्राकृतव्याकरणम्
[सू. ८-४-३४८
भवतः । लोपापवादौ ॥ जसः । अंगुलिउ जज्जरियाओ नहेण ॥ शसः । सुन्दर-सव्वङ्गाउ विलासिणीओ पेच्छन्ताण ॥ वचनभेदान्न यथासंख्यम् ॥ ३४८ ॥
ट ए ॥ ८।४ । ३४९ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्याष्टायाः स्थाने ए इत्यादेशो भवति ॥
निअ-मुह-करहिं वि मुद्ध कर अन्धारइ पडिपेक्खइ ।
ससि-मण्डल-चन्दिमए पुणु काई न दूरे देक्खइ । जहिं मरगय--कन्तिए संवलिअं ॥ ३४९ ॥
उस--ङस्योर्हे ॥ ८।४ । ३५० ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोर्डस् ङसि इत्येतयोहे इत्यादेशो भवति ॥ डसः ।
तुच्छ--मझ्झहे तुच्छ-जम्पिरहे । तुच्छच्छ-रोमावलिहे तुच्छ-राय तुच्छयर-हासहे । पिय-वयणु अलहन्तिअहे तुच्छकाय–वम्मह-निवासहे ।। अन्नु जु तुच्छउं तहे धणहे तं अक्खणह न जाइ ।
कटरि थणंतरु मुद्धडहे जे मणु विच्चि ण माइ ॥ सेः।
फोडेन्ति जे हियडउं अप्पणउं ताहं पराई कवण घण । रक्खेज्जहु लोअहो अप्पणा बालहे जाया विसम थण ॥३५०॥
भ्यसामोर्तुः ॥ ८।४ । ३५१॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य भ्यस आमश्च हु इत्यादेशो भवति ॥
भल्ला हुआ जु मारिआ बहिणि महारा कन्तु ।
लज्जेज्जं तु वयंसिअहु जइ भग्गा घरु एन्तु । वयस्याभ्यो वयस्यानां वेत्यर्थः ॥ ३५१ ॥