________________
सू. ८-४-३४८]
स्वोपज्ञवृत्तिसहितम्
अग्गिएं उण्हउ होइ जगु वाएं सीअलु ते ।
जो पुणु अग्गि सीअला तसु उण्हत्तणु केव ॥ णानुस्वारौ।
विप्पिअ-आरउ जइ वि पिट तो वि तं आणहि अज्जु । ___ अग्गिण दड़ा जइवि घरु तो तें अग्गिं कज्जु ॥ एवमुकारादप्युदाहायाः ॥ ३४३ ॥
स्यम्-जस्-शसा लुक् ॥ ८।४।३४४ ॥ अपभ्रंशे सि अम् जस् शस् इत्येतेषां लोपो भवति ॥ एइ ति घोडा एह थलि । इत्यादि । अत्र स्यम् जसां लोपः ॥
जिव जिव वंकिम लोअणहं. णिरु सामलि सिक्खेइ । .. तिवँ तिवँ वम्महु निअय-सरु खर-पत्थरि तिक्खेइ ॥ अत्र स्यम्शसां लोपः ॥ ३४४ ॥
षष्ठयाः ॥८।४। ३४५ ॥ अपभ्रंशे षष्ठया विभक्त्याः प्रायो लुग् भवति ।
संगर-सएहिं जु वण्णिअइ देक्खु अम्हारा कन्तु ।
अइमत्तहं चत्तड्कुसहं गय कुम्भई दारन्तु ॥ पृथग्योगो लक्ष्यानुसारार्थः ॥ ३४५ ॥
आमन्त्र्ये जसो होः ॥ ८।४ । ३४६॥ . अपभ्रंशे आमन्त्र्येर्थे वर्तमानान्नाम्नः परस्य जसो हो इत्यादेशो भवति । लोपापवादः॥ तरुणहो तरुणिहो मुणिक मई करहु म अप्पहो घाउ ॥ ३४६ ॥
भिस्सुपोहि ॥ ८॥ ४ । ३४७ ॥ ___अपभ्रंशे भिस्सुपोः स्थाने हिं इत्यादेशो भवति ॥ गुणहिं न संपइ कित्ति पर ॥ सुप् । भाईरहि जिव भारइ मग्गेहिं तिहिं वि पयट्टइ ॥३४७॥
स्त्रियां जम्-शसोरुदोत् ॥ ८।४ । ३४८॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य जसः शसंश्च प्रत्येकमुदोतावादेशौ