________________
पू. ८-४-३३८] स्वोपज्ञवृत्तिसहितम्
१४७ पिअ जोअन्तिहे मुह-कमलु एम्वइ सुरउ समत्तु ॥ ३३२ ॥
एट्टि॥ ८।३ । ३३३ ॥ अपभ्रंशे अकारस्य टायामेकारो भवति । जे महु दिण्णा दिअहडा दइएं पवसन्तेण । ताण गणन्तिए अङ्गुलिउ जज्जरिआउ नहेण ॥ ३३३ ॥
डिनेच्च ॥ ८।४ । ३३४॥ अपभ्रंशे अकारस्य डिना सह इकार एकारश्च भवतः । सायरु उप्परि तणु धरइ तलि घल्लइ रयणाई । सामि सुभिच्चु वि परिहरइ सम्माणेइ खलाई ॥ तले घल्लई ॥ ३३४ ॥
भिस्येद्वा ॥ ८।४ । ३३५ ॥ अपभ्रंशे अकारस्य भिसि परे एकारो वा भवति । गुणहिं न संपइ कित्ति पर फल लिहिआ भुञ्जन्ति । केसरि न लहइ बोड्डिअ वि गय लक्खहि घेप्पन्ति ॥ ३३५॥
ङसेहूँ-हू ॥ ८।४।३३६ ।। अस्येति पञ्चम्यन्तं विपरिणम्यते । अपभ्रंशे अकारात्परस्य उसे हु इत्यादेशौ भवतः ।
वच्छहे गृण्हइ फलई जणु कडु-पल्लव वज्जेइ । तोवि महहुमु सुअणु जिव ते उच्छङ्गि धरेइं । वच्छहु गृहइ ॥ ३३६ ॥
भ्यसो हुँ ।। ८।४।३३७॥ अपभ्रंशे अकारात्परस्य भ्यसः पञ्चमीबहुवचनस्य हुं इत्यादेशो भवति । दूरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ । जिह गिरि-सिङ्गहुं पडिअ सिल अन्नु वि चूरु करेइ ॥३३७॥
उसः सु-हो-स्सवः ॥ ८।४ । ३३८ ॥ अपभ्रंशे अकारात्परस्य ङसः स्थाने सु हो स्सु इति त्रय आदेशा भवन्ति ।