________________
१४६
प्राकृतव्याकरणम् [सू. ८-४-३२९ लेह ॥ गरि । गोरि ॥ प्रायोग्रहणाद्यस्यापभ्रंशे विशेषो वक्ष्यते तस्यापि क्वचित्प्राकृतवत् शौरसेनीवच्च कार्यं भवति ॥ ३२९ ॥
स्यादौ दीर्घ-हस्वौ ॥ ८।४।३३० ॥ .: अपभ्रंशे नाम्नोन्त्यस्वरस्य दीर्घ-हस्वौ स्यादौ प्रायो भवतः ॥ सौ ॥ • | ढोल्ला सामला धण चम्पा-वण्णी ।
णाइ सुवण्ण-रेह कस-वट्टर दिण्णी । आमन्व्ये ।
ढोल्ला मई तुहुं वारिया मा कुरु दीहा माणु ।
निदए गमिही रत्तडी दडवड होइ विहाणु ॥ स्त्रियाम् ॥
बिट्टीए मइ भणिय तुहुं मा करु वङ्की दिहि ।
पुत्ति सकण्णी भल्लि जिव मारइ हिअइ पइहि ।' जसि ॥
एइ ति घोडा एह थलि एइ ति निसिआ खग्ग ।
एत्यु मुणीसिम जाणीअइ जो नवि वालइ वग्ग ॥ . एवं विभक्त्यन्तरेष्वप्युदाहार्यम् ॥ ३३० ॥
स्यमोरस्योत् ॥ ८।४ । ३३१ ॥ अपभ्रंशे अकारस्य स्यमोः परयोः उकारो भवति । दहमुहु भुवण-भयंकरु तोसिअ-संकरु णिग्गउ रह-वरि चडिअउ । चउमुहु छंमुहु झाइवि एक्काहिं लाइवि णावइ दइवें घडिअउ ॥३३१॥
सौ पुंस्योद्वा ॥ ८ । ४ । ३३२ ॥ अपभ्रंशे पुल्लिङ्गे वर्तमानस्य नाम्नोकारस्य सौ परे ओकारो वा भवति ।
अगलिअ-नेह-निवट्टाहं जोअण-लक्खुवि जाउ ।
वरिस-सएण वि जो मिलइ सहि सोक्खहं सो ठाउ । पुंसीति किम् ।
अङ्गहिँ अङ्गु न मिलिउ हलि अहरें अहरु न पत्तु ।