________________
स्वोपज्ञवृत्तिसहितम्
दून- त्थूनौ ट्वः ॥ ८ । ४ । ३१३ ॥
पैशाच्यां ष्ट्वा इत्यस्य स्थाने धडून त्थून इत्यादेशौ भवतः । पूर्वस्थापवादः । नध्दून । नत्थून । तडून । तत्थून ॥ ३१३ ॥
र्य-न-टां रिय- सिन-सटाः क्वचित् ॥ ८ । ४ । ३१४ ॥ पैशाच्यां स्रष्टां स्थाने यथासंख्यं रिय सिन सट इत्यादेशाः कचित् भवन्ति । भार्या । भारिया । स्नातम् । सिनातं । कष्टम् । कसटं । क्वचि - दिति किम् । सुज्जो । सुनुसा | तिट्ठा ॥ ३९४ ॥
सु. ८-४-३२० ]
१४३
क्यस्येय्यः ।। ८ । ४ । ३१५ ॥
पैशाच्यां क्यप्रत्ययस्य इय्य इत्यादेशो भवति । गिय्यते । दिव्यते । रमिय्यते । पठिय्यते ॥ ३१५ ॥
कृगो डीरः ।। ८ । ४ । ३१६ ॥
पैशाच्यां कृगः परस्य क्यग्य स्थाने डीर इत्यादेशो भवति । पुधुमतंसने सव्वस्स व सम्मानं कीरते || ३१६ ॥
यादृशादेर्दुस्तिः || ८|४|३१७ ॥
पैशाच्यां यादृश इत्येवमादीनां दृ इत्यस्य स्थाने तिः इत्यादेशो भवति । यातिसो । तातिसो । केतिसो । एतिसो | भवातिसो | अज्ञातिसो । म्हातसो । अम्हातसो ॥ ३१७ ॥
इचेचः॥ ८।४।३१८॥
1
पैशाच्यामिचेचोः स्थाने तिरादेशो भवति ॥ वसुआति । भोति । नेति । तेति ॥ ३१८ ॥
आत्तेश्च ||८|४|३१९॥
पैशाच्यामकारात्परयोः इचेचोः स्थाने तेश्चकारात् तिश्चादेशो भवति ॥ लपते । लपति । अच्छते । अच्छति । गच्छते । गच्छति । रमते । रमति । आदिति किम् । होति । नेति ॥ ३१९ ॥ 1
भविययेय एव || ८|४|३२० ॥
पैशाच्यामिचेचोः स्थाने भविष्यति एय्य एव भवति न तु स्सिः ॥ तं तद्धून चिंतितं रञ का एसा हुवेय्य ॥ ३२० ॥