________________
१४२
प्राकृतव्याकरणम् [सू. ८-४-३०५
न्य-ण्योर्जः ।। ८ । ४ । ३०५॥ पैशाच्यां न्यण्योः स्थाने ओ भवति । कञ्जका । अभिमञ्जू । पुञकम्मो । पुजाहं ॥ ३०५॥
णो नः ॥ ८।४ । ३०६ ॥ पैशाच्यां णकारस्य नो भवति । गुन-गन-युत्तो । गुनेन ॥ ३०६॥
तदोस्तः ॥ ८ । ४ । ३०७॥ पैशाच्यां तकारदकारयोस्तो भवति । तस्य । भगवती । पव्वती। सतं । दस्य । मतन-परवसो । सतन । तामोतरो । पतेसो । वतनकं । होतु । रमतु ॥ तकारस्यापि तकारविधानमादेशान्तरबाधनार्थम् । तेन पताका वेतिसो इत्याद्यपि सिद्धं भवति ॥ ३०७ ॥
लोळः ॥ ८ । ४ । ३०८ ॥ पैशाच्यां लकारस्य ळकारो भवति ॥ सीळं । कुळं । जळं । सळिळं । कमळं ॥ ३०८॥
श-षोः सः॥८।४ । ३०९ ॥ पैशाच्यां शषोः सो भवति । श । सोभति । सोभनं । ससी । सको । सङ्को ॥ ष । विसमो । किसानो । 'न कगचजादिषट्शम्यन्तसूत्रोक्तम्' (८--४-३२४ ) इत्यस्य बाधकस्य बाधनार्थोयं योगः ॥ ३०९॥
हृदये यस्य पः॥ ८।४ । ३१० ॥ पैशाच्या हृदयशब्दे यस्य पो भवति । हितपकं । किंपि किंपि हितपके अत्थं चिन्तयमानी ॥ ३१० ॥
टोस्तुर्वा ॥ ८।४ । ३११ ॥ पैशाच्यां टोः स्थाने तुर्वा भवति । कुतुम्बकं । कुटुम्बकं ॥ ३११ ॥
क्त्वस्तूनः ॥ ८ । ४ । ३१२ ॥ पैशाच्यां क्त्वाप्रत्ययस्य स्थाने तून इत्यादेशो भवति ॥ गन्तून । रन्तून हसितून । पठितून । कधितून ॥ ३१२ ॥