________________
१३८
प्राकृतव्याकरणम् [स. ८-४-२८६ अन्दावेदी । जुवदि-जणो । मणसिला । इत्यादि ॥ २८६ ॥
अत एत्सौ पुंसि मागध्याम् ॥ ८।४।२८७ ॥ मागध्यां भाषायां सौ परे अकारस्थ एकारो भवति पुंसि पुल्लिङ्गे ॥ एष मेषः । एशे मेशे ॥ एशे पुलिशे ॥ करोमि भदन्त । करेमि भन्ते ॥ अत इति किम् । णिही। कली। गिली ॥ पुंसीति किम् । जलं ॥ यदपि " पोराणमद्ध-मागह-भासा-निययं हवइ सूत्तं " इत्यादिनार्षस्य अर्द्धमागधभाषानियतत्वमान्नायि पृबैस्तदपि प्रायोस्यैव विधानान्न वक्ष्यमाणलक्षणस्य॥ कयरे आगच्छइ ॥ से तारिसे दुक्खसहे जिइन्दिए । इत्यादि ॥ २८७ ॥
रसोर्ल-शौ ॥ ८।४।२८८ ॥ मागध्यां रेफस्य दन्त्यसकारस्य च स्थाने यथासंख्यं लकारस्तालव्यशकारश्च भवति ॥ र ॥ नले । कले ॥ स । हंशे । शुदं । शोभणं ॥ उभयोः । शालशे । पुलिशे॥
लहश-वश-नमिल-शुल-शिल-विअलिद-मन्दाल-लायिदहियुगे । वील-विणे पक्वालदु मम शयलमवय्य-यम्बालं ॥ २८८ ॥
__स-पोः संयोगे सोग्रीष्मे ॥ ८ । ४ । २८९ ॥ मागध्यां सकारषकारयोः संयोगे वर्तमानयोः सो भवति ग्रीष्मशब्दे तु न भवति । ऊर्ध्वलोपाद्यपवादः ॥ स । पस्वलदि हस्ती । बुहस्पदी । मस्कली। विस्मये ॥ष । शुस्क-दालुं । कस्टं। विस्नु । शस्प-कवले । उस्मा । निस्फलं । धनुस्खण्डं ॥ अग्रीष्म इति किम् । गिम्ह-वाशले ।। २८९ ॥
ट्ट-ठयोस्टः ॥ ८।४।२९०॥ द्विरुक्तस्य टस्य षकाराक्रान्तस्य च ठकारस्य मागध्यां सकाराकान्तः टकारो भवति ॥ दृ । पस्टे । भस्टालिका । भस्टिणी ।। ठ । शुस्टु कदं । कोस्टागालं ॥ २९० ॥
स्थ-र्थयोस्तः ॥ ८।४।२९१ ॥ स्थ र्थ इत्येतयोः स्थाने मागध्या सकाराकान्तः तो भवति ॥ स्थ । उवस्तिदे । शुस्तिदे ॥ र्थ । अस्त-वदी । शस्तवाहे ॥ २९१ ॥