SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३६ [ सू. ८-४-२७२ प्राकृतव्याकरणम् कृ - गमो डडुअः ।। ८ । ४ । २७२ ।। आभ्यां परस्य क्त्वाप्रत्ययस्य डित् अड्डअ इत्यादेशो वा भवति ॥ कडुअ । गडुअ । पक्षे । करिय । करिण । गच्छिय । गच्छिदू ॥ २७२ ॥ दिरिचेचोः ।। ८ । ४ । २७३ ॥ 'त्यादीनामाद्यत्रयस्याद्यस्यैचेचौ ' ( ८-३ - १३९ ) रिचेचोः स्थाने दिर्भवति ॥ वेति निवृत्तम् । नेदि । होदि ॥ २७३ ॥ इति विहितयो देदि । भोदि । अतो देव || ८ | ४ । २७४ ॥ अकारात्परयोरिचेचोः स्थाने देश्चकाराद् दिश्च भवति ॥ अच्छ । अच्छदि || गच्छदे । गच्छदि || रमदे । रमदि । किज्जदे । किज्जदि ॥ अत इति किम् । वसुआदि । नेदि । भोदि ॥ २७४ ॥ 1 भविष्यति सिः ।। ८ । ४ । २७५ ।। शौरसेन्यां भविष्यदर्थे विहिते प्रत्यये परे स्तिर्भवति ।। हिस्साहामपवादः । भविस्सिदि । करिस्सिदि । गच्छिस्सिदि ।। २७५ ॥ अतो उसे दो-डादू || ८ । ४ । २७६ ।। अतः परस्य डसेः शौरसेन्यां आदो आदु इत्यादेशौ डितौ भवतः ॥ दूरादो य्येव । दूरादु ॥ २७६ ॥ इदानीमो दाणिं ॥ ८ । ४ । २७७ ।। शौरसेन्यामिदानीमः स्थाने दाणिमित्यादेशो भवति ॥ अनन्तरकरणीयं दाणिं आणवेदु अय्यो || व्यत्ययात्प्राकृतेपि । अन्नं दाणिं बोहिं ॥ २७७॥ तस्मात्ताः ।। ८ । ४ । २७८ ।। शौरसेन्यां तस्माच्छब्दस्य ता इत्यादेशो भवति ।। ता जाव पविसामि । ता अलं एदिणा माणेण ॥ २७८ ॥ मोन्त्याण्णो वेदेतोः || ८।४।२७९ ॥ शौरसेन्यामन्त्यान्मकारात्पर इदेतोः परयोर्णकारागमो वा भवति ॥ इकारे । जुत्तं णिमं जुत्तमिणं । सरिसं णिमं सरिसमिणं । एकारे । किं णेदं किमेदं । एवं दं एवमेदं ॥ २७९ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy