________________
१३५
सू. ८-४-२७१ ] स्वोपज्ञवृत्तिसहितम्
भवद्भगवतोः ॥ ८ । ४ । २६५ ॥ आमन्त्र्य इति निवृत्तम् । शौरसेन्यामनयोः सौ परे नस्य मो भवति ॥ किं एत्थभवं हिदएण चिन्तेदि । एदु भवं । समणे भगवं महावीरे । पज्जलिदो भयवं हुदासणो ॥ क्वचिदन्यत्रापि । मघवं पागसासणे । संपाइअवं सीसो । कयवं । करेमि काहं च ॥ २६५ ॥
न वा यो व्यः॥ ८। ४ । २६६॥ ___ शौरसेन्यां यस्य स्थाने य्यो वा भवति ॥ अय्यउत्त पय्याकुलीकदम्हि । सुय्यो । पक्षे । अज्जो । पज्जाउलो । कज्ज-परवसो ॥ २६६ ॥
थो धः ॥ ८ । ४ । २६७ ॥ शौरसेन्यां थस्य धो वा भवति ॥ कधेदि कहेदि । णाधो णाहो । कधं कहं । राज-पधो राज-पहो ॥ अपदादावित्येव । थामं । थेओ ॥ २६७ ॥
इह-हचोर्हस्य ॥८।४। २६८ ॥ ___ इहशब्दसम्बन्धिनो 'मध्यमस्येत्था-हचौ' (८-३-१४३) इति विहितस्य हचश्च हकारस्य शौरसेन्यां धो वा भवति ॥ इध । होध । परित्तायध ॥ पक्षे । इह । होह । परित्तायह ॥ २६८ ॥
भुवो भः ॥ ८।४ । २६९ ॥ भवतेर्हकारस्य शौरसेन्यां भो वा भवति ॥ भोदि । होदि । भुवदि । हुवदि । भवदि । हवदि ॥ २६९ ॥
पूर्वस्य पुरवः ॥ ८।४ । २७० ॥ ___ शौरसेन्यां पूर्वशब्दस्य पुरव इत्योदेशो वा भवति ॥ अपुरवं नाडयं । अपुरवागदं । पक्षे । अपुव्वं पदं । अपुव्वागदं ॥ २७० ॥
__क्त्व इय-भृणौ ॥ ८ । ४ । २७१ ॥
शौरसेन्यां क्त्वाप्रत्ययस्य इय दूण इत्योदेशौ वा भवतः ॥ भविय भोदूण । हविय होदूण । पढिय पढिदूण । रमिय रन्दूण । पक्षे भोत्ता । होत्ता । पढित्ता । रन्ता ॥ २७१ ॥