________________
१३४
प्राकृतव्याकरणम्
[ सू. ८-४-२५९
अस्यार्थः । इच्छति खादति वा ॥ फक्तेस्थक्क आदेशः । थक्कइ । नीचां गर्तिं करोति विलम्बयति वा । विलप्युपालम्भ्योर्झङ्ख आदेश: । झख । विलपति उपालभते भाषते वा ॥ एवं पडिवालेइ । प्रतीक्षते रक्षति वा ॥ केचित् कैश्चिदुपसगैर्नित्यम् । पहरइ । युध्यते ॥ संहरइ । संवृणोति || अणुहरइ । सदृशीभवति ॥ नीहरइ । पुरीषोत्सर्गं करोति ॥ विहरइ । क्रीडति ॥ आहरइ । खादति ॥ पडिहर । पुनः पूरयति ॥ परिहरइ | त्यजति || उवहरइ । पूजयति ।। वाहरइ । आह्वयति || पवसइ । देशान्तरं गच्छति || उच्चुप । चटति || उल्लूहइ । निःसरति ।। २५९ ॥
तो दोनादौ शौरसेन्यामयुक्तस्य ।। ८ । ४ । २६० ॥ शौरसेन्यां भापायामनादावपदादौ वर्तमानस्य तकारस्य दकारो भवति न चेदसौ वर्णान्तरेण संयुक्तो भवति ॥ तदो पूरिद-पदिज्ञेन मारुदिना मन्तिदो । एतस्मात् । एदाहि । एदाओ || अनादाविति किम् । तधा करे GET तस्स राइणो अणुकम्पणीआ भोमि । अयुक्तस्येति किम् । मत्तो अय्यउत्तो । असंभाविद - सक्कारं । हला सउन्तले ॥ २६० ॥
अधः क्वचित् ॥ ८ । ४ । २६१ ॥
वर्णान्तरस्याधोवर्तमानस्य तस्य शौरसेन्यां दो भवति । कचिल्लक्ष्या - सारेण || महन्दो । निच्चिन्दो । अन्देउरं ॥ २६१ ॥
1
वास्तवति ॥ ८ । ४ । २६२ ॥
शौरसेन्यां तावच्छब्दे आदेस्तकारस्य दो वा भवति ॥ दाव | ताव ॥ २६२ ॥
आ आमन्त्र्ये सौ वेनो नः || ८ | ४ | २६३ ॥ शौरसेन्यामिनो नकारस्य आमन्त्र्ये सौ परे आकारो वा भो कञ्चु । सुहि । पक्षे । भो तवस्सि । भो मणस्सि ॥ मो वा ॥ ८ ॥ ४ । २६४॥
1
1
भवति ॥ २६३ ॥
शौरसेन्यामामध्ये सौ परे नकारस्य मो वा भवति ॥ भो रायं । भोविवमं । सुमं । भयवं कुसुमाउह । भयवं तिथं पवत्तेह | पक्षे । सयल-लोअ -अन्तेआरि भयव हुदवह || २६४ ॥