________________
सू. ८-४-२५९] स्वोपज्ञवृत्तिसहितम्
१३३ __ आरभेराढप्पः ॥ ८।४।२५४ ॥ आडपूर्वस्य रभेः कर्मभावे आढप्प इत्यादेशो वा भवति क्यम्य च लुक् ।। आढप्पई । पक्षे । आढवीअइ ॥ २५४ ॥
स्निह-सिचोः सिप्पः ॥ ८।४।२५५ ॥ ___ अनयोः कर्मभावे सिप्प इत्यादेशो भवति क्यस्य च लुक् ॥ सिप्पइ । निह्यते । सिच्यते वा ॥ २५५ ॥
अहेर्पप्पः ॥ ८।४।२५६ ॥ ग्रहेः कर्मभावे घेप्प इत्यादेशो वा भवति क्यस्य च लुक् ॥ घेप्पइ । गिहिज्जइ ॥ २५६ ॥
स्पृशेश्छिप्पः ॥ ८।४।२५७ ॥ ___ स्पृशतेः कर्मभावे छिप्पादेशो वा भवति क्यलुक् च ॥ छिप्पइ । छिविज्जइ ॥ २५७ ॥
तेनाप्फुणादयः ॥ ८।४।२५८ ।। ___ अप्फुणादयः शब्दा आक्रमिप्रभृतीनां धातूनां स्थाने क्तेन सह वा निपात्यन्ते ॥ अप्फुणो । आक्रान्तः ॥ उक्कोसं । उत्कृष्टम् ॥ फुडं । स्पष्टम् ॥ वोलीणो। अतिक्रान्तः ।। वोसट्टो । विकसितः ॥ निसुट्टो । निपातितः ॥ लुग्गो । रुग्णः ।। ल्हिको । नष्टः । पम्हुदो । प्रमुष्टः प्रमुषितो वा ॥ विढत्तं आर्जितम् ।। छित्तं । स्पृष्टम् ॥ निमिअं । स्थापितम् ॥ चक्खिअं । आस्वादितम् ॥ लुअं । लूनम् ॥ जढं । त्यक्तम् ॥ ज्झोसि। क्षिप्तम् ।। निच्छुढं । उद्वृत्तम् ॥ पल्हत्थं पलोट्टं च । पर्यस्तम् ॥ हीसमणं । हेषितम् । इत्यादि ॥ २५८ ॥
धातवोर्थान्तरेपि ॥ ८।४।२५९ ॥ उक्तादर्थादर्थान्तरेपि धातवो वर्तन्ते ॥ बलिः प्राणने पठितः खादनेपि वर्तते। बलइ । खादति प्राणनं करोति वा ॥ एवं कलिः संख्याने संज्ञानेपि । कलइ । जानाति संख्यानं करोति वा ॥ रिगिर्गतौ प्रवेशेपि ॥ रिगइ । प्रविशति गच्छति वा । कांक्षतेर्वम्फ आदेशः प्राकृते । वम्फइ ।