________________
१३२
प्राकृतव्याकरणम्
समनूपादुधेः || ८ ४ । २४८ ॥
समनूपेभ्यः परस्य रुधेरन्त्यस्य कर्मभावे ज्झो वा भवति तत्सन्नियोगे क्यस्य च लुक् || संरुज्झइ । अणुरुज्झइ । उवरुज्झ । पक्षे । संरुन्धिज्जइ । अणुरुन्धिज्जइ । उवरुन्धिज्जइ ॥ भविष्यति । संरुज्झिहि । संरुन्धिहि । इत्यादि ॥ २४८ ॥
[ सू. ८-४-२४८
गमादीनां द्वित्वम् ॥ ८ । ४ । २४९ ॥
गमादीनामन्त्यस्य कर्मभावे द्वित्वं वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ गम् । गम्मइ । गमिज्जइ || हस् । हस्सइ । हसिज्जइ || ण् । भण्णइ | भणिज्जइ । हुप् । छुप्पइ । छुविज्जइ || 'रुद - न मोर्व' ( ८-४-२२६ ) इति कृतवकारादेशो रुदिरत्र पठ्यते । व् । रुव्वइ । रुविज्जइ || लभ् । लब्भइ । लहिज्जइ ॥ कथ् । कत्थई । कहिज्जइ ॥ भुज् । भुज्जइ ॥ भुजिज्जइ ॥ भविष्यति । गम्मिहि । गमिहि । इत्यादि ॥ २४९ ॥ हृ-कृ-- श्रामीरः ||८।४।२५० ॥
एषमन्त्यस्य ईर इत्यादेशो वा भवति तत्सन्नियोगे च क्लुक् ॥ ही । हरिज्जइ । कीरइ करिज्जइ । तीरइ तरिज्जइ । जीरइ जरिज्जइ || २५० ॥ अर्जेर्विप्पः || ८|४| २५१ ॥
अन्त्यस्येति निवृत्तम् । अर्जेर्विढप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ विढप्प | पक्षे | विढविज्जइ । अज्जिज्जइ ॥ २५१ ॥ ज्ञो व्य- गज्जौ || ८|४|२५२ ॥
जानातेः कर्मभावे णव्व णज्ज इत्यादेशौ वा भवतः तत्सन्नियोगे क्यस्य च लुक् ॥ णव्वइ णज्जइ । पक्षे । जाणिज्जइ । मुणिज्जइ ॥ 'न-ज्ञोर्णः' (८-२-४२) इति णादेशे तु । णाइज्जइ ॥ नञ्पूर्वकस्य। अणाइज्जइ ॥ २५२ ॥
व्याहृगेवहिप्पः || ८ |४| २५३ ॥
व्याहरतेः कर्मभावे वाहिप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक् || वाहिप्पइ । बाहरिज्जइ ॥ २५३ ॥