________________
सू. ८-४-२१८] स्वोषज्ञवृत्तिसहितम्
१२७ क्त्वा-तुम्-तव्येषु-घेत् ॥ ८।४।२१० ॥ ___ ग्रहः क्त्वातुम्तव्येषु घेत् इत्यादेशो भवति ॥ क्त्वा । घेत्तूण । घेत्तुआण ।। वचिन्न भवति । गेण्हिअ ॥ तुम् । घेत्तुं ॥ तव्य । घेत्तव्वं ।। २१० ॥
वचो वोत् ॥ ८।४।२११ ॥ वक्तेर्वोत् इत्यादेशो भवति क्त्वातुम्तव्येषु॥वोत्तूण । वोत्तुं । वोत्तव्यं ॥२११॥
रुद-भुज-मुचा तोन्त्यस्य ॥ ८।४।२१२ ॥ एषामन्त्यस्य क्त्वातुम्तव्येषु तो भवति ॥ रोत्तूण । रोत्तं । रोत्तव्वं ॥ भोत्तूण । भोत्तुं । भोत्तव्वं ॥ मोत्तूण । मोत्तुं । मोत्तव्वं ॥ २१२ ॥
. दृशस्तेन टुः ॥ ८।४।२१३ ॥ दृशोन्त्यम्य तकारेण सह द्विरुक्तष्ठकारो भवति ॥ दट्ठण । दहें । दढ़व्वं ॥ २१३ ॥
आः कृगो भूत-भविष्यतोश्च ॥ ८१४।२१४ ॥ • कृगोन्त्यस्य आ इत्यादेशो भवति भूतभविप्यत्कालयोश्चकारात् क्त्वातुम्तव्येषु च ॥ काहीअ । अकार्षीत् । अकरोत् । चकार वा ॥ काहिअ । करिप्यति । कर्ता वा ॥ क्त्वा । काऊण ॥तुम् । काउं ।। तव्य । कायव्वं ॥२१४॥
गमिष्यमासां छः ॥ ८।४।२१५ ॥ एषामन्त्यम्य छो भवति ॥ गच्छइ । इच्छई । जच्छइ । अच्छइ ।।२१५॥
छिदि-भिदो न्दः ॥ ८।४।२१६ ॥ अनयोरन्त्यस्य नकाराकान्तो दकारो भवति ॥ छिन्दइ । भिन्दइ ।।२१६॥
युध-बुध-गृध-क्रुध-सिध-मुहां झः ॥८।४।२१७॥ एषामन्त्यस्य द्विरुक्तो झो भवति ॥ जुज्झइ । बुज्झइ । गिज्झइ । कुज्झइ । सिज्झइ । मुज्झइ ॥ २१७ ॥
रुधो न्ध-म्भौ च ।।८।४।२१८॥ रुधोन्त्यस्य न्ध म्भ इत्येतौ चकारात् ज्झश्च भवति ॥ रुन्धइ । रुम्भइ । रुज्झइ ॥ २१८॥