________________
१२८
प्राकृतव्याकरणम् [सू. ८-४-२१९
सद-पतोर्डः ॥८।४।२१९॥ अनयोरन्त्यस्य डो भवति ॥ सडइ । पडइ ॥ २१९ ॥
क्वथ-बधों ढः ॥८।४।२२०॥ अनयोरन्त्यस्य ढो भवति ॥ कढइ । वढइ पवय-कलयलो ॥ परिअड्ढा लायण्णं ॥ बहुवचनाद् वृधेः कृतगुणस्य वर्धेश्चाविशेषेण ग्रहणम् ॥२२०॥
वेष्टः ॥८।४। २२१ ॥ वेष्ट वेष्टने इत्यस्य धातो: कगटड (८-२.७७ ) इत्यादिना षलोपेन्त्यस्य ढो भवति ॥ वेढइ । वेढिज्जइ ॥ २२१ ॥
समा ल्लः ॥८।४।२२२॥ संपूर्वस्य वेष्टतेरन्त्यस्य द्विरुक्तो लो भवति ॥ संवेल्लइ ॥ २२२ ॥
वोदः ॥ ८ । ४ । २२३॥ उदः परस्य वेष्टतेरन्त्यस्य ल्लो वा भवति ॥ उव्वेल्लइ उव्वेढइ ।।२२३॥
स्विदां ज्जः ॥ ८।४ । २२४ ॥ स्विदिप्रकाराणामन्त्यस्य द्विरुक्तो जो भवति ॥ सव्वङ्ग-सिज्जिरीए । संपज्जइ । खिजइ ।। बहुवचनं प्रयोगानुसरणार्थम् ॥ २२४ ॥
ब्रज-नृत-मदां चः॥ ८।४ । २२५ ॥ एषामन्त्यस्य द्विरुक्तश्चो भवति ॥ वच्चइ । नच्चइ । मच्चइ ।।२२५॥
रुद-नमोर्वः ।।८।४। २२६॥ अनयोरन्त्यस्य वो भवति ॥ रुवइ । रोवइ । नवइ ॥ २२६ ॥
उद्विजः ॥८। ४ । २२७॥ उद्विजतेरन्त्यस्य वो भवति ।। उव्विवइ । उव्वेवो ॥ २२७ ॥
खाद-धावोर्लक् ॥ ८ । ४ । २२८ ॥ अनयोरन्त्यस्य लुग् भवति ॥ खाई । खाअइ । खाहिए। खाउ। धाइ। धाहिइ । धाउ ॥ बहुलाधिकाराद्वर्तमानाभविष्यद्विध्यायेकवचन एव भवति। तेनेह न भवति । खादन्ति । धावन्ति ॥ क्वचिन्न भवति । धावइ पुरओ ॥ ॥ २२८ ॥