________________
स्वोपज्ञवृत्तिसहितम्
समा गलः ॥ ८ । ४ । ११३ ।।
सम्पूर्वस्य घटतेर्गल इत्यादेशो वा भवति ॥ संगलइ । संघइ ॥११३॥ हासेन स्फुटेर्मुरः ॥ ८ । ४ । ११४ ॥
हासेन करणेन यः स्फुटिस्तस्य मुरादेशो वा भवति ॥ मुरइ । हासेन स्फुटति ॥ ११४ ॥
मण्डेश्चिश्च चिञ्चअ - चिञ्चिल्ल - रीड - टिविडिक्काः ॥ ८ । ४ । ११५ ॥
मण्डेरेते पञ्चादेशा वा भवन्ति ॥ चिञ्च । चिञ्च । चिञ्चिल | iss | टिविडिक्क । मण्डइ ।। ११५ ।। तुडेस्तोड तुट्ट खुट्ट- खुडोक्खुडोलुक - णिलुक्क लुकोल्लूराः || ८|४ | ११६ ॥
तुडेरेते नवादेशा वा भवन्ति ॥ तोडइ । तुट्ट । खुट्टइ । खुडइ । उक्खुडइ । उल्लुक्कइ । णिलुक्कइ | लुक्कइ । उल्लूरइ । तुइ ॥ ११६ ॥ घूर्णो घुल-घोल - धुम्म - पहल्लाः ॥ ८|४|११७ ॥
वूर्णरेते चत्वार आदेशा भवन्ति || घुइ । घोल । घुम्मइ । पहइ ॥ ११७ ॥
सू. ८-४-१२२ ]
$
विवृतसः || ८|४|११८ ॥
विवृतेर्टेंस इत्यादेशो वा भवति ॥ सइ । विवट्ट | ११८ ॥ कथेरट्टः || ८|४|११९ ॥
कथेरट्ट इत्यादेशो वा भवति || अट्ट | कढइ ॥ ११९॥ ग्रन्थो गण्ठः || ८|४|१२० ॥
११७
ग्रन्थेर्गण्ठ इत्यादेशो भवति || गण्ठइ । गण्ठी ॥ १२० ॥ मन्थे घुसल - विरोलौ ॥ ८|४|१२१ ॥
मन्थेर्घुसल विरोल इत्यादेशौ वा भवतः ॥ घुसलइ । विरोलइ । मन्थइ । १२१ । हादेखअच्छः || ८|४|१२२ ॥
ह्लादतेर्ण्यन्तस्याण्यन्तस्य च अवअच्छ इत्यादेशो भवति ।। अवअच्छइ । झ्ह्लादते । ह्लादयति वा । इकारो ण्यन्तस्यापि परिग्रहार्थः ॥ १२२ ॥