________________
प्राकृतव्याकरणम्
[सू. ८-४-८३
आहः सन्नामः ॥ ८॥४। ८३॥ आद्रियतेः सन्नाम इत्यादेशो वा भवति ॥ सन्नामइ । आदरइ ॥८३॥
प्रहगेः सारः ॥ ८।४। ८४ ॥ प्रहरतेः सार इत्यादेशो वा भवति ॥ सारइ । पहरइ ॥ ८४ ॥
- अवतररोह-ओरसों ॥ ८।४। ८५ ॥ अवतरतेः ओह ओरस इत्यादेशौ वा भवतः ॥ ओहइ । ओरसइ । ओअरइ ॥ ८५ ॥
शकेश्चय-तर-तीर-पाराः ॥ ८।४। ८६ ॥ शक्नोतरेते चत्वार आदेशा वा भवन्ति ॥ चयइ । तरइ । तीरइ । पारइ । सक्कइ । त्यजतेरपि चयइ । हानिं करोति ॥ तरतरपि तरइ ।। तीरयतेरपि तीरइ ॥ पारयतेरपि पारेइ । कर्म समामोति ॥ ८६ ॥ .
फकस्थकः ॥ ८।४ । ८७ ॥ ' फक्कतेस्थक्क इत्यादेशो भवति ॥ थक्कइ ॥ ८७ ॥
श्लाघः सलहः ॥ ८।४। ८८॥ श्लाघतेः सलह इत्यादेशो भवति ॥ सलहइ ॥ ८८ ॥
खचेर्वेअडः ॥ ८।४ । ८९ ॥ खचतेर्वेअड इत्यादेशो वा भवति ॥ वेअडई । खचइ ।। ८९ ॥
पचे सोल्ल-पउलौ ॥ ८।४ । ९० ॥ - पचतेः सोल्ल पउल इत्यादेशौ वा भवतः ॥ सोल्लइ । पउलइ । पयइ ॥ ९० ॥ मुचेश्छड्डावहेड-मेल्लोस्सिक-रेअव-णिल्लुञ्छ-धंसाडाः ॥ ८ । ४।९१॥
मुञ्चतेरेते सप्तादेशा वा भवन्ति ॥ छड्डइ । अवहेडइ । मेल्लइ । उस्सिक्वइ । रेअवइ । णिलुन्छइ । धंसाडइ । पक्षे । मुअइ ॥ ९१ ॥
दुःखे णिव्वलः ॥ ८ । ४ । ९२ ॥ दुःखविषयस्य मुचेः णिव्वल इत्यादेशो वा भवति ॥ णिव्वलेइ । दुःखं मुञ्चतीत्यर्थः ॥ ९२॥