________________
११३
सू. ८-४-८२] स्वोपज्ञवृत्तिसहितम्
चाटौ गुललः ॥८।४।७३॥ चाटुविषयस्य कृगो गुलल इत्यादेशो वा भवति ॥ गुललइ । चाटु करोतीत्यर्थः ॥ ७३ ॥
स्मरेझर-झूर-भर-भल-लढ-विम्हर-सुमर-पयर-पम्हुहाः॥ ८।४।७४॥
स्मरेरेते नवादेशा वा भवन्ति ॥ झरइ । झूरइ । भरइ । भलइ । लढइ । विम्हरइ । सुमरइ । पयरइ । पम्हुहइ । सरइ ॥ ७४ ॥
विस्मुः पम्हुस-विम्हर-वीसराः ॥८४७५॥ विस्मरतेरेते आदेशा भवन्ति ॥ पम्हुसइ । विम्हरइ । वीसरइ ॥७५॥
व्याहगेः कोक-पोकौ ॥८४७६॥ व्याहरतेरेतावादेशौ वा भवतः ।। कोक्कइ । ह्रस्वत्वे तु कुक्कइ । पोक्कइ ।' पक्षे । वाहरइ ॥ ७६॥
प्रसरेः पयल्लोवेल्लौ ॥८४७७॥ प्रसरतेः पयल्ल उवेल्ल इत्येतावादेशौ वा भवतः । पयल्लइ । उवेल्लइ । पसरइ ॥ ७७ ॥
महमहो गन्धे ।।८।४।७८॥ प्रसरतेर्गन्धविषये महमह इत्यादेशो वा भवति ॥ महमहइ मालई । मालई-गन्धो पसरइ । गन्ध इति किम् । पसरइ ॥ ७८ ॥
निस्सरीहर-नील-धाड-वरहाडाः ॥८४।७९॥ निस्सरते चत्वार आदेशा वा भवन्ति ॥ णीहरइ । नीलइ । धाडइ । वरहाडइ । नीसरइ ॥ ७९ ॥
जाग्रेजग्गः ॥८॥४८॥ जाग्रतेर्जग्ग इत्यादेशो वा भवति ॥ जग्गइ । पक्षे । जागरइ ॥८०॥
व्याप्रेराअड्डः ॥ ८।४। ८१ ॥ व्याप्रियतेराअड्ड इत्यादेशो वा भवति ॥ आअड्डइ । वावरेइ ।। ८१ ॥
__ संवगेः साहर-साहट्टौ ॥ ८।४। ८२॥ संवृणोतेः साहर साहट्ट इत्यादेशौ वा भवतः ॥ साहरइ । साहट्ट ॥ संवरइ ॥ ८२ ॥