________________
११२
प्राकृतव्याकरणम्
[ सू. ८-४-६४
क्ते ॥ ८।४।६४ ॥
भुवः क्तप्रत्यये हूरादेशो भवति ॥ हूअं । अणुहूअं । पहूअं ॥ ६४ ॥ : कुणः || ८ |४| ६५ ॥
कृगेः
कृगः कुण इत्यादेशो भवति || कुण | करइ || ६५ ॥ कागेक्षिते णिआरः ।। ८ ।४।६६ ॥
काणेक्षितविषयस्य कृगो णिआर इत्यादेशो वा भवति ॥ णिआरइ । काणेक्षितं करोति ॥ ६६ ॥
निष्टम्भावष्टम्भे णिद्रुह--संदाणं ।। ८ ।४।६७ ।।
निष्टम्भविषयस्यावष्टम्भविषयस्य च कृगो यथासंख्यं णिद्रुह संदाण इत्यादेशौ वा भवतः ॥ हि । निष्टम्भं करोति । संदाइ । अवष्टम्भं करोति ॥ ६७ ॥
श्रमे वावः ।। ८ । ४ ॥ ६८ ॥
श्रमविषयस्य कृगो वावम्फ इत्यादेशो वा भवति ॥ वावम्फइ । श्रमं करोति ॥६८ ॥
मन्यु नौष्ठमालिन्ये णिव्वोलः ||८|४|६९ ॥
मन्युना करणेन यदोष्ठमालिन्यं तद्विषयस्य कृगो णिव्वोल इत्यादेशो वा भवति || णिव्वोलइ । मन्युना ओष्ठं मलिनं करोति ॥ ६९ ॥ शैथिल्य-लम्बने पयल्लः || ८|४|७०||
शैथिल्यविषयस्य लम्बनविषयस्य च कृगः पयल्ल इत्यादेशो वा भवति । पयल्लइ । शिथिलीभवति लम्बते वा ॥ ७० ॥
निष्पताच्छोटे णीलुञ्छः ॥८|४|७१ ॥
निप्पतनविषयस्य आच्छोटनविषयस्य च कृगो णीञ् इत्यादेशो भवति वा ।। णीलुञ्छइ । निष्पतति । आच्छोटयति वा ॥ ७१ ॥ अरे कम्मः || ८ | ४|७२॥
क्षुरविषयस्य कृगः कम्म इत्यादेशो वा भवति ॥ कम्मइ । क्षुरं करोतीत्यर्थः ॥ ७२ ॥