SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११० प्राकृतव्याकरणम् कमेर्णिहुवः || ८ | ४ । ४४ ॥ कमेः स्वार्थण्यन्तस्य णिहुव इत्यादेशो वा भवति ॥ णिहुवइ । -कामेइ ॥ ४४ ॥ [ सू. ८-४-४४ प्रकाशेर्णुव्वः ॥ ८ । ४ । ४५ ॥ प्रकाशेर्ण्यन्तस्य णुव्व इत्यादेशो वा भवति ॥ णुव्वइ । पयासेइ ||४५ || कम्पेर्विच्छोलः ॥ ८ । ४ । ४६ ॥ कम्पेर्ण्यन्तस्य विच्छोल इत्यादेशो वा भवति ॥ विच्छइ । - कम्पेइ ॥ ४६ ॥ आरोपेर्वलः ।। ८ । ४ । ४७ ॥ आरुहेर्ण्यन्तस्य वल इत्यादेशो वा भवति || वलइ | आरोवेइ || ४७॥ दोले रङ्खोलः ।। ८ । ४। ४८॥ दुलेः स्वार्थे ण्यन्तस्य रङ्खोल इत्यादेशो वा भवति ॥ रङ्खोलइ । दोलइ ॥ ४८ ॥ रञ्जेरावः ।। ८ । ४ । ४९ ॥ रञ्जेर्ण्यन्तस्य राव इत्यादेशो वा भवति || रावेइ । रञ्जेइ ॥ ४९ ॥ घटेः परिवाडः || ८ |४|५० ॥ घटेर्ण्यन्तस्य परिवाड इत्यादेशो वा भवति । परिवाडेइ | घडेइ ॥५०॥ वेष्टेः परिआलः || ८ । ४ । ५१ ॥ वेष्टेर्ण्यन्तस्य परिआल इत्यादेशो वा भवति || परिआलेइ | वेढेइ ||५ |५१॥ क्रियः किणो वेस्तु के च ॥ ८ ।४।५२ ॥ 1 णेरिति निवृत्तम् । क्रीणातेः किण इत्यादेशो भवति । वेः परस्य तु द्विरुक्तः क्वेश्चकारात्किणश्च भवति ।। किणइ । विक्केइ | विक्किणइ || ५२॥ भयो भा - बीहौ || ८ |४|५३ ॥ बिभेतेरेतावादेशौ भवतः ॥ भाइ । भाइअं । बीहइ | बीहिअं || बहुलाधिकाराद् भीओ || ५३ ॥ आलीडोली || ८ | ४ । ५४ ॥ आलीयतेः अल्ली इत्यादेशो भवति || अल्लिया । अल्लीणो ॥ ५४ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy