SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सू. ८-४-४३] स्वोपज्ञवृत्तिसहितम् संभावेरासङ्घः ॥ ८ । ४ । ३५॥ संभावयतेरासघ इत्यादेशो वा भवति ॥ आसड्घइ । संभावइ ॥ ३५॥ उन्नमेरुत्थमोल्लाल-गुलुगुञ्छोप्पेलाः ॥ ८ । ४ । ३६ ॥ उत्पूर्वस्य नमेर्णन्तस्य एते चत्वार आदेशा वा भवन्ति ॥ उत्थड्घइ । उल्लालइ । गुलुगुञ्छइ । उप्पेलइ । उन्नावइ ॥ ३६ ।। प्रस्थापेः पट्टव पेण्डवौ ।। ८ । ४ । ३७ ॥ प्रपूर्वस्य तिष्ठतेर्ण्यन्तस्य पट्ठव पेण्डव इत्यादेशौ वा भवतः ॥ पट्ठवइ । पेण्डवइ । पढावइ ॥ ३७॥ विज्ञपेर्वोक्काबुक्कौ ॥ ८ । ४ । ३८ ॥ विपूर्वस्य जानातेय॑न्तस्य वोक्क अवुक्क इत्यादेशौ वा भवतः ॥ वोक्कइ । अवुक्कइ.'। विण्णवइ ॥ ३८ ॥ अरल्लिव-चच्चुप्प-पणामाः ॥ ८ । ४ । ३९ ॥ अर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति ॥ अल्लिवइ । चच्चुप्पइ । पणामइ । पक्षे । अप्पेइ ॥ ३९ ॥ ___ यापेर्जवः ॥ ८।४ । ४० ॥ यातेर्ण्यन्तस्य जव इत्यादेशो वा भवति ॥ जवइ जावेइ ॥ ४० ॥ प्लावेरोम्वाल-पव्वालौ ।। ८ । ४ । ४१ ॥ प्लवर्ण्यन्तस्य एतावादेशौ वा भवतः ॥ ओम्वालइ । पव्वालइ । पावेइ ॥ ४१ ॥ विकोशेः पक्खोडः॥ ८।४। ४२ ॥ विकोशयतेर्नामधातोर्ण्यन्तस्य पक्खोड इत्यादेशो वा भवति ॥ पक्खोडइ । विकोसई ॥ ४२ ॥ ___ रोमन्थे रोग्गाल-वग्गोलौ ॥ ८ । ४ । ४३ ॥ रोमन्थे मधातोर्ण्यन्तस्य एतावादेशौ वा भवतः ॥ ओग्गालइ । वग्गोलइ । रोमन्थइ ॥ ४३ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy