SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिसहितम् अहं ॥ इदितो ।। ८ । ४ । १॥ सूत्रे ये इदितो धातवो वक्ष्यन्ते तेषां ये आदेशास्ते विकल्पेन भवन्तीति चेदितव्यम् । तत्रैव चोदाहरिप्यते ॥ १ ॥ सू, ८-४-६ ] १०५ कथेर्वज्जर-पज्जरोप्पाल- पिसुण- सङ्घ बोल्ल - चव- जम्पसीस-साहाः || ८|४|२|| कथेर्धातोर्वज्जरादयो दशादेशा वा भवन्ति ॥ वज्जरइ । पज्जरइ । उप्पालइ । पिसुणइ । सङ्घइ । बोल्लइ । चवइ । जम्पइ । सीसइ | साहइ || उब्बुक्कइ इति तूत्पूर्वस्य बुक्क भाषणे इत्यस्य । पक्षे । कहइ ॥ एते चान्यैर्देशीषु पठिता अपि अस्माभिर्धात्वादेशीकृता विविधेषु प्रत्ययेषु प्रतिष्ठन्ता. मिति ॥ तथा च । वज्जरिओ कथितः । वज्जरिऊण कथयित्वा । वज्जरणं कथनम् । वज्र्जरन्तो कथयन् । वज्जरिअव्वं कथयितव्यमिति रूपसहस्राणि सिध्यन्ति । संस्कृतधातुवच्च प्रत्ययलोपागमादिविधिः ॥ २ ॥ दुःखे णिव्वरः ।। ८ । ४ । ३॥ दुःखविषयस्य कथेर्णिव्वर इत्यादेशो वा भवति ॥ णिव्वर | दुःखं कथयतीत्यर्थः ॥ ३ ॥ जुगुप्सेर्झण- दुगुच्छ - दुगुञ्छाः ॥ ८ । ४ । ४ ॥ जुगुप्सेरेते त्रय आदेशा वा भवन्ति ॥ झुणइ । दुगुच्छइ । दुगुञ्छइ । पक्षे । जुगुच्छइ || गलोपे । दुउच्छइ । दुउञ्छइ । जुउच्छइ ॥ ४ ॥ बुभुक्षि- वीज्योर्णीरव - वोज्जौ || ८|४|५|| बुभुक्षेराचारविवन्तस्य च वीजेर्यथासंख्यमेतावादेशौ वा fieas | बहुक्ख । वोज्जइ । वीजइ ॥ ५ ॥ भवतः ॥ या - गोर्झा - गौ || ८|४|६ ॥ अनयोर्यथासंख्यं झां गा इत्यादेशौ भवतः ॥ झाइ । झाअइ । 'णिज्झाइ । णिज्झाअइ । निपूर्वो दर्शनार्थः । गाइ । गायइ | झाणं । गाणं ।। ६ ।।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy