SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०४ प्राकृतव्याकरणम् [सू. ८-३-१७८ , होजाइ । होज्ज । होज्जा । पक्षे । होइ ॥ एवं होज्जसि । होज्ज । होज्जा । होसि । इत्यादि । भविष्यन्ती । होज्जहिइ । होज्जाहिइ । होज्ज । होज्जा । पक्षे । होहिइ ॥ एवं होज्जहिसि । होज्जाहिसि । होज्ज । होज्जा । होहिसि । होज्जहिमि । होज्जाहिमि । होज्जस्सामि । होज्जहामि । होज्जस्सं । होज्ज । होज्जा । इत्यादि ॥ विध्यादिषु । होज्जउ । होज्जाउ । होज्ज । होज्जा । भवतु भवेद्वेत्यर्थः । पक्षे । होउ । स्वरान्तादिति किम् । हसेज्ज । हसेज्जा । तुवरेज्ज । तुवरेज्जा ॥१७८॥ क्रियातिपत्तेः ॥ ८ । ३ । १७९ ॥ क्रियातिपत्तेः स्थाने ज्जज्जावादेशौ भवतः ॥ होज्ज । होज्जा । अभविष्यदित्यर्थः । जइ होज्ज वण्णणिज्जो ॥ १७९ ॥ न्त-माणौ ।।८।३।१८०॥ - क्रियातिपत्तेः स्थाने न्तमाणौ आदेशौ भवतः ॥ होन्तो । होमाणो । अभविष्यदित्यर्थः ॥ हरिण-ट्ठाणे हरिणङ्क जइ सि हरिणाहिवं निवेसन्तो । न सहन्तो चिअ तो राहुपरिहवं से जिअन्तस्स ॥१८०॥ . शत्रानशः॥ ८।३। १८१ ॥ शतृआनश् इत्येतयोः प्रत्येकं न्त माण इत्येतावादेशौ भवतः ॥ शतृ । हसन्तो हसमाणो ॥ आनश् । वेवन्तो वेवमाणो ॥ १८१ ॥ ई च स्त्रियाम् ॥ ८।३। १८२ ॥ . स्त्रियां वर्तमानयोः शत्रानशोः स्थाने ई चकारात् न्तमाणौ च भवन्ति । हसई । हसन्ती । हसमाणी । वेवई । वेवन्ती । वेवमाणी ॥ १८२ ॥ .. इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानु शासनवृत्तों अष्टमस्याध्यायस्य तृतीयः पादः ॥ ऊवं स्वर्गनिकेतनादपि तले पातालमूलादपि । त्वत्कीर्तिर्धमति क्षितीश्वरमणे पारे पयोधेरपि । तेनास्याः प्रमदास्वभावसुलभैरुच्चावचैश्चापलैस्ते वाचंयमवृत्तयोपि मुनयो मौनव्रतं त्याजिताः ॥ १॥ . . . . . . . .सर्वविदे नमः ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy