SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सू. ८-३-१७८ ] स्वोपज्ञवृत्तिसहितम् यथासंख्यं दु सु मु इत्येते आदेशा भवन्ति ॥ हसउ सा । हससु तुमं । हसामु अहं ॥ पेच्छउ । पेच्छसु । पेच्छामु ॥ दकारोच्चारणं भाषान्तरार्थम् ॥ १७३ ॥ सोहिर्वा ॥ ८ ॥३॥ १७४ ॥ पूर्वसूत्रविहितस्य सोः स्थाने हिरादेशो वा भवति ॥ देहि देसु ॥१७४॥ अत इजस्विजहीजे-लुको वा ॥ ८॥३।१७५ ॥ अकारात्परस्य सोः इज्जसु इज्जहि इज्जे इत्येते लुक् च आदेशा वा भवन्ति ॥ हसेज्जसु । हसेज्जहि । हसेज्जे । हस । पक्षे । हससु ॥ अत इति किम् । होसु । ठाहि ॥ १७५ ॥ बहुषु न्तु ह मो ॥ ८॥३॥१७६ ॥ विध्यादिषूत्पन्नानां बहुप्वर्थेषु वर्तमानानां त्रयाणां त्रिकाणां स्थाने यथासंख्यं न्तु ह मो इत्येते आदेशा भवन्ति ॥ न्तु । हसन्तु । हसन्तु हसेयुर्वा ॥ ह । हसह । हसत । हसेत वा ॥ मो। हसामो । हसाम । हसेम वा ॥ एवं तुवरन्तु । तुवरह । तुवरामो ॥ १७६॥ वर्तमाना-भविष्यन्त्योश्च ज ज्जा वा ॥ ८।३।१७७ ॥ वर्तमानाया भविष्यन्त्याश्च विध्यादिषु च विहितस्य प्रत्ययस्य स्थाने ज्ज ज्जा इत्येतावादेशौ वा भवतः ॥ पक्षे यथाप्राप्तम् ॥ वर्तमाना। हसेज्ज । हसेज्जा । पढेज्ज । पढेज्जा । सुणेज्ज । सुणेज्जा ॥ पक्षे । पढिहिइ ॥ विध्यादिषु । हसेज्ज । हसिज्जा । हसतु । हसेवा इत्यर्थः । पक्षे । हसउ ॥ एवं सर्वत्र । यथा तृतीयत्रये । अइवाएज्जा । अइवायावेज्जा । न समणुजाणामि । न समणुजाणेज्जा वा ॥ अन्ये त्वन्यासामपीच्छन्ति । होज्ज । भवति । भवेत् । भवतु । अभवत् । अभूत् । बभूव । भूयात् । भविता । भविष्यति । अभविष्यद्वेत्यर्थः ॥ १७७ ॥ मध्ये च स्वरान्ताद्वा ॥ ८।३ । १७८ ॥ स्वरान्ताद्धातोः प्रकृतिप्रत्यययोर्मध्ये चकारात्प्रत्ययानां च स्थाने ज्ज ज्जा इत्येतौ वा भवतः वर्तमानाभविष्यन्त्योर्विघ्यादिषु च ॥ वर्तमाना । होज्जइ ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy