SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [सू. ८-३-१५८ वर्तमाना-पञ्चमी-शतृषु वा ॥ ८ । ३ । १५८॥ वर्तमानापञ्चमीशतृषु परत अकारम्य स्थाने एकारो वा भवति ॥ वर्तमाना । हसेइ हसइ । हसेम हसिम । हसेमु हसिनु ॥ पञ्चमी । हसेउ हसउ । सुणेउ सुणउ ॥ शतृ । हसेन्तो हसन्तो ॥ क्वचिन्न भवति । जयइ॥ क्वचिदात्वमपि । सुणाउ ॥ १५८ ॥ जा-जे ॥ ८।३ । १५९ ॥ · जा ज्ज इत्यादेशयोः परयोरकारस्य एकारो भवति ॥ हसेज्जा । हसेज ॥ अत इत्येव । होज्जा । होज ॥ १५९ ॥ ईअ-इजो क्यस्य ॥ ८।३ । १६०॥ चिजिप्रभृतीनां भावकर्मविधि वक्ष्यामः । येषां तु न वक्ष्यते तेषां संस्कृतातिदेशात्प्रातस्य क्यस्य स्थाने ईअ इज इत्येतावादेशौ भवतः ॥ हसीअइ। हसिज्जइ । हसीअन्तो । हसिज्जन्तो । हसीअमाणो । हसिज्जमाणो । पढीअइ । पढिज्जइ । होईअइ । होइज्जइ ॥ बहुलाधिकारात् क्वचित् क्योपि विकल्पेन भवति । मए नवेज्ज मए नविज्जेज्ज । तेण लहेज्ज । तेण लहिज्जेज्ज । तेण अच्छेज्ज । तेण अच्छिज्जेज्ज । तेण अच्छीअइ ॥१६०॥ ____ दृशि-वचेर्डीस-डुच्चं ॥ ८ । ३ । १६१ ॥ दृशेर्वचेश्च परस्य क्यस्य स्थाने यथासंख्यं डीस डुच्च इत्यादेशौ भवतः। ईअइज्जापवादः ॥ दीस: वुच्चइ ॥ १६१ ॥ सी ही हीअ भूतार्थस्य ॥ ८।३।१६२॥ भूतेथे विहितोद्यतन्यादिः प्रत्ययो भूतार्थः तस्य स्थाने सी ही हीअ इत्यादेशा भवन्ति ।। उत्तरत्र व्यञ्जनादीअविधानात् स्वरान्तादेवायं विधिः ॥ कासी । काही । काहीअ । अकार्षीत् । अकरोत् । चकार वेत्यर्थः । एवं ठासी । ठाही । ठाहीअ ॥ आर्षे । देविन्दो इणमब्बवी इत्यादी सिद्धावस्थाश्रयणात् ह्यस्त्यन्याः प्रयोगः ॥ १६२ ॥ ___व्यञ्जनादीः ॥ ८ । ३ । १६३ ॥ व्यञ्जनाद्धातोः परस्य भूतार्थस्याद्यतन्यादिप्रत्ययस्य ईअ इत्यादेशो भवति॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy