________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पमसहितः वाक्षिप्तमवगन्तव्यम् । संबन्धस्तूपायोपेयलक्षणः, तखोपेयं प्रकरणार्थपरिज्ञानम्, प्रकरणमुपायः, ततस्तदभिलषता प्रकरणमिदमारम्भणीयमिति अनुक्तोऽपि वचनेन संबन्धोऽर्थाद् गम्यते इति तात्पर्यार्थः ।
__ अधुनाक्षराथों विवियते - तत्र यद्यपि प्रमाणशब्दस्य सर्वकारकैर्भावेन च व्युत्पत्तेः सुकरत्वात् “ कृत्यल्युटो बहुलम्" ( पा० ३-३-११३) अन्यत्रापि (पा. ३-३-१३०) इति वचनाद् यथाक्रमममी कर्यादिकारकभावन्युत्पत्या प्रमाणशब्दवाच्याः, तद् यथा - आत्मार्थज्ञानार्थक्रियाकारणकलापक्षयोपशमक्रियारूपाः, तथापीह ज्ञानमेवाधिक्रियते, तस्यैव परीक्षाक्षमस्वात्, इतरेषां परीक्षायाः तत्पुरःसरत्वात् , वैयर्थ्याच्च । तथा हि-नार्थस्तावदात्मनः परीक्षया, तस्य भ्रान्ताभ्रान्तज्ञानेषु समानत्वात् । नाप्यर्थस्य, तस्योपेयत्वात्, उपायभूतज्ञानपरी. क्षणेनैव गतस्वात् । नार्थक्रियायाः, तदवनती परीक्षावयात् । नापि कारणकलापस्य, ज्ञानोत्पत्तेः प्राक् स्वरूपानवगतेः, पश्चात् तरस्वरूपनिर्णयादेव तस्साद्गुण्य. बैगण्यावगतनरर्थक्यात् । नापि क्षयोपशमस्य, तस्य ज्ञानोत्पादोनीयमामरूपत्वात् । नापि प्रमितिमात्रस्य तस्य प्रमाणसाध्यतया तञ्चारुताद्वारेणैव समीचीनतासिद्धे. रिति । तदयमभिप्रायः-- यद्यपि अनन्तधर्माध्यासिते वस्तुनि सर्व एव शब्दार्था निरुपचरिता घटन्ते, तथापि येनार्थ परिच्छिद्यार्थक्रियासमर्थार्थप्रार्थनया प्रवर्तन्ते प्रमातारस्तदेवेह ज्ञानमात्मना सह धर्मिरूपतया तादात्म्येऽपि धर्मरूपतया व्यतिरिक्तं प्रमीयतेऽनेनेति प्रमाणामत्युच्यते। तस्य व्युत्पादनम् परपरिकल्पितलक्षणादिग्युदासेन स्वाभिप्रेतलक्षणादिस्वरूपपप्रकाशनम् । तदर्थ- अर्थशद्वः प्रयोजनपर्यायः इदम् इति अर्थरूपतया स्वचेतसि विवर्तमानप्रकरणशरीरं परामृशति । द्विविध हि प्रकरणशरीरम्, शद्धोऽर्थश्चेति, बहिः शब्दरूपतया प्रकाशयिष्यमाणत्वेऽप्यन्तस्तस्वार्थाकारेण प्रत्यक्षवाद् । आरभ्यते इति पदवाक्यश्लोकादिरचनया प्रक्रियते इति
यावत् ।
___ इह च लक्षणसंख्यागोचरफलेषु प्रमाणं प्रति विप्रतिपद्यन्ते परे। तथा हिलक्षणे तावत्, प्रमाणमावसंवादि ज्ञानमिति सौगताः । अनधिगतार्थाधिगन्तु
नार्थ इति। न प्रयोजनम् । नाप्यर्थस्येति । अत्राग्रिमेषु च स्थानेषु परोक्षया प्रयोजनमिति संबन्धनीयम् । उन्नीयमानरूपत्वादिति । उत्पूर्वान्नयतेः कर्मणि यण, निणीयमानवादित्यर्थः । प्रकरणशरीरमिति । प्रकरणस्य स्वम्पम् । पदेत्यादि । पदं प्रसिद्धम् , पाक्यं विशिष्टपदसमुदाय: । यदाह
पदानां मंहतिवाक्यं मापक्षाणां परस्परम ।
गाभ्याता: कल्पनास्ता पात्यन्तु यथायथम् ॥ श्लोकश्छन्दामात्रम् । आदिग्रहणात् प्रत्यक्षानुमानप्रकरणादिप्रहः ।।
For Private And Personal Use Only