________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
न्यायावतारः
प्रमाणमिति मीमांसकाः । अर्थोपलब्धिहेतुः प्रमाणमिति नैयायिकादयः ॥ तथा संख्यायां, प्रत्यक्षानुमाने द्वे एव प्रमाणे इति सौगताः । प्रत्यक्षानुमानशब्दापमाना'थपत्यभावाः प्रमाणानीति मीमांसकाः । प्रत्यक्षानुमानशब्दोपमानानि प्रमाणानीति नैयायिकाः । प्रत्यक्षानुमानशब्दानि प्रमाणानीति वैशेषिकाः । एतान्येव सांख्याः । प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः ॥ तथा गोचरे, परस्परविनिर्लुरितक्षणयिपरमाणुलक्षणानि स्वलक्षणानि प्रमाणगोचरस्ताविक इति बौद्धाः | सामा न्यविशेषात्मकं वस्त्विति मीमांसकाः । परस्परविभक्तौ सामान्यविशेषाविति नैया
म्याया- २
Acharya Shri Kailassagarsuri Gyanmandir
"
सौगता इति । सुष्ठु अपुनरावृत्त्या गतं गमनं सर्वे गत्यर्था ज्ञानार्थी इति न्यायात् शोभनं ज्ञानं वा यस्य स तथा स देवता येषां "सास्य देवता" ( पा०४-२-२४) इति अण्; यद्वा सुगतस्य इमे सौगताः, "तस्येदम् " ( पा० ४-३ - १२० ) इति अण् । मीमांसका इति । मीमांसाशब्दः पूजित विचारवचनस्तां विदन्त्यधीयते वा क्रमादियां बुन्द ( पा० ४-२-६१ ) इत्यकप्रत्ययः । यद्वा मीमांसयन्ति विचारयन्ति यथावस्थितस्वरूपेण प्रमाणप्रमेयादिवस्तुजातमिति मीमांसकाः कर्तरि ण् । नैयायिकादय इति । न्यायं विदन्त्यधीयते वा " क्रतूक्थादेश् " इति विश्रान्तसूत्रेण उण्, “दत्येकः" इतीकादेशः । प्रत्यक्षानुमानशब्दोपमामार्थापत्यभावाः प्रमाणानीति । यदाहुस्तद्वादिनःप्रत्यक्षमनुमानं च शाब्दं चोपमया सह ।
अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥ इति ।
प्रभाकरस्य वा अभावप्रमाणं प्रत्यक्षविशेषं वदतः पञ्च प्रमाणानीति । प्रत्यक्षानुमानशब्दानि प्रमाणानीति वैशेषिका इति । व्योमशिवाभिप्रायेणैतत्प्रमाणत्रितयमवोचदाचार्यः ः । कन्दलीकारस्तु प्रत्यक्षानुमानें द्वे एव प्रमाणे प्राह । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, विशेषा एव वैशेषिकम् ; “ विनयादेः” (पा० ५-४-३४) इति स्वार्थे ठण्; ततो वैशेषिकं विदन्त्यधीयते वा वैशेषिकाः, “ तद्वेत्यधीते " ( सिद्ध० हे० ६-२-११७ ) इत्यण् ॥ एतान्येव सांख्या इति । संख्या पञ्चविंशतितत्त्वानि यदाहुः सांख्याः पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जठी मुण्डी शिखी वापि मुच्यते नात्र संशयः १ ॥
तf विदन्त्यधीयते वा सांख्याः ; पूर्ववदण् । तालव्यादिरपि शाङ्खयध्वनिरस्तीति वृद्धामायः । तथाहि शङ्खनामा कश्विदाद्यः पुरुषविशेषः तस्यापत्यं पौत्रादिरिति गर्गादित्वाद प्रयप्रत्ययः ॥ प्रत्यक्षमेवैकं प्रमाणमिति चार्वाका इति । चर्व अदने चर्वन्ति भक्षयन्ति तत्त्वतो न मन्यन्ते पुण्यपापादिकं परोक्षं वस्तुजातमिति चार्वाकाः मदाकश्यामात्यादि सिद्ध मोगादिदण्डकेन (सू० ३७) निपातनात् ॥ प्रमाणसंख्यासंग्रहाय लोकमात्र चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं, सशाब्द
;
>
तद्वैतं पारमर्षः, सहित सुपमया तत्त्रयं चाक्षपादः ।
For Private And Personal Use Only